स्वयंभू स्तोत्र

श्री ऋषभजिनस्तवनम्

वंशस्थ छन्द:

स्वयम्भुवा भूत-हितेन भूतले,

समञ्जस-ज्ञान-विभूति-चक्षुषा।

विराजितं येन विधुन्वता तम:,

क्षपाकरेणेव गुणोत्करै: करै:॥ १॥


प्रजापति र्य: प्रथमं जिजीविषू:

शशास कृष्यादिषु कर्मसु प्रजा:।

प्रबुद्धतत्त्व: पुनरद्भुतोदयो,

ममत्वतो निर्विविदे विदांवर:॥ २॥


विहाय य: सागर-वारि-वाससं,

वधू-मिवेमां वसुधा-वधू सतीम्।

मुमुक्षु-रिक्ष्वाकु-कुलादि-रात्मवान्,

प्रभु: प्रवव्राज सहिष्णु-रच्युत:॥ ३॥


स्व-दोष-मूलं स्व-समाधि-तेजसा,

निनाय यो निर्दय-भस्म-सात्-क्रियाम्।

जगाद तत्त्वं जगतेर्थिनेञ्जसा,

बभूव च ब्रह्म-पदा-मृतेश्वर:॥ ४॥


स विश्व-चक्षुर्वृषभोर्चित: सतां,

समग्र-विद्यात्म-वपु र्निरञ्जन:।

पुनातु चेतो मम नाभिनन्दनो,

जिनो जित-क्षुल्लक-वादि-शासन:॥ ५॥


श्री अजितजिनस्तवनम्

उपजाति छन्द:

यस्य प्रभावात् त्रिदिवच्युतस्य,

क्रीडास्वपि क्षीव-मुखार-विन्द:।

अजेय-शक्ति-र्भुवि बन्धुवर्गश्,

चकार नामाजित इत्यबन्ध्यम् ॥६॥


अद्यापि यस्याजित-शासनस्य,

सतां प्रणेतु: प्रतिमङ्गलार्थम्।

प्रगृह्यते नाम परं पवित्रं,

स्व-सिद्धि-कामेन जनेन लोके ॥७॥


य: प्रादुरासीत् प्रभु-शक्ति-भूम्ना,

भव्या-शया-लीन-कलङ्क-शान्त्यै।

महा-मुनि र्मुक्त -घनोप-देहो,

यथारविन्दाभ्यु-दयाय भास्वान्॥८॥


येन प्रणीतं पृथु-धर्म-तीर्थं,

ज्येष्ठं जना: प्राप्य जयन्ति दु:खम्।

गाङ्गं ह्रदं चन्दन-पङ्क-शीतं,

गज-प्रवेका इव घर्म-तप्ता:॥९॥


स ब्रह्म-निष्ठ: सम-मित्र-शत्रुर्,

विद्या-विनिर्वान्त-कषाय-दोष:।

लब्धात्म-लक्ष्मी-रजितो-जितात्मा,

जिन-श्रियं मे भगवान् विधत्ताम्॥ १०॥


श्री शम्भवजिनस्तवनम्

इन्द्रवज्रा छन्द:

त्वं शम्भव: संभव-तर्ष-रोगै:,

संतप्य-मानस्य जनस्य लोके।

आसी-रिहा-कस्मिक एव वैद्यो,

वैद्यो यथानाथ-रुजां प्रशान्त्यै॥११॥


अनित्य-मत्राण-महं क्रियाभि:,

प्रसक्त-मिथ्याध्य-वसाय-दोषम्।

इदं जगज्-जन्म-जरान्त-कार्तं,

निरञ्जनां शांतिमजीगमस्त्वम्॥ १२॥


शत-ह्रदोन्मेष-चलं हि सौख्यं,

तृष्णा-मयाप्यायन-मात्र-हेतु:।

तृष्णाभि-वृद्धिश्च तपत्यजस्रं,

तापस्तदायासय-तीत्यवादी:॥ १३॥


बन्धश्च मोक्षश्च तयोश्च हेतू

बद्धश्च मुक्तश्च फलं च मुक्ते:।

स्याद्वादिनो नाथ! तवैव युक्तं,

नैकान्त-दृष्टेस्त्वमतोसि शास्ता॥ १४॥


शक्रोप्य-शक्तस्तव पुण्यकीर्ते:

स्तुत्यां प्रवृत्त: किमु मादृशोज्ञ:।

तथापि भक्त्या स्तुत-पाद-पद्‌मो,

ममार्य! देया: शिव-ताति-मुच्चै:॥१५॥


श्री अभिनंदनजिनस्तवनम्

वंशस्थ छन्द:

गुणाभिनन्दा-दभिनन्दनो भवान्,

दयावधूं क्षान्ति-सखी-मशिश्रियत्।

समाधि-तन्त्रस्तदु-पोपपत्तये,

द्वयेन नैग्र्रन्थ्यगुणेन चायुजत्॥१६॥


अचेतने तत्कृतबन्धजेपि च,

ममेद-मित्याभिनिवेशिक-ग्रहात्।

प्रभंगुरे स्थावर-निश्चयेन च,

क्षतं जगत्-तत्त्वमजिग्रहद्-भवान्॥१७॥


क्षुदादि-दु:ख-प्रतिकारत: स्थितिर्,

न चेन्द्रियार्थ-प्रभवाल्प-सौख्यत:।

ततो गुणो नास्ति च देह-देहिनो-

रितीद-मित्थं भगवान् व्यजिज्ञपत्॥१८॥


जनोतिलोलोप्यनुबन्ध-दोषतो,

भया-दकार्येष्विह न प्रवर्तते।

इहाप्य-मुत्राप्यनुबन्ध-दोषवित्,

कथं सुखे संसजतीति चाब्रवीत्॥१९॥


स चानुबन्धोस्य जनस्य तापकृत्,

तृषोभिवृद्धि:, सुखतो न च स्थिति:।

इति प्रभो! लोकहितं यतो मतं,

ततो भवानेव गति: सतां मत:॥२०॥


श्रीसुमतिजिनजिनस्तवनम्

उपजाति छन्द:

अन्वर्थ-संज्ञ: सुमति-र्मुनिस्त्वं,

स्वयं मतं येन सुयुक्ति-नीतम्।

यतश्च शेषेषु मतेषु नास्ति,

सर्व-क्रिया-कारक-तत्त्व-सिद्धि:॥२१॥


अनेक-मेकं च तदेव तत्त्वं,

भेदान्वय-ज्ञान-मिदं हि सत्यम्।

मृषोपचारोन्यतरस्य लोपे,

तच्छेष-लोपोपि ततोनुपाख्यम्॥२२॥


सत: कथञ्चित् तदसत्त्व-शक्ति:,

खे नास्ति पुष्पं तरुषु प्रसिद्धम्।

सर्व-स्वभाव-च्युत-मप्रमाणं,

स्व-वाग्-विरुद्धं तव दृष्टितोन्यत्॥२३॥


न सर्वथा नित्यमुदेत्य-पैति,

न च क्रिया-कारक-मत्र युक्तम्।

नैवा-सतो जन्म सतो न नाशो,

दीपस्तम:पुद्गल-भावतोस्ति॥२४॥


विधि-र्निषेधश्च कथञ्चिदिष्टौ,

विविक्षया मुख्य-गुण-व्यवस्था।

इति प्रणीति: सुमतेस्तवेयं,

मति-प्रवेक: स्तुवतोस्तु नाथ!॥ २५॥


श्रीपद्‌मप्रभजिनस्तवनम्

उपजाति छन्द:

पद्‌मप्रभ: पद्‌म-पलाश-लेश्य:,

पद्‌मा-लया-लिङ्गित-चारु-मूर्ति:।

बभौ भवान् भव्य-पयो-रुहाणां,

पद्‌माकराणा-मिव पद्‌म-बन्धु:॥२६॥


बभार पद्‌मां च सरस्वतीं च,

भवान् पुरस्तात् प्रति-मुक्ति-लक्ष्म्या:।

सरस्वती-मेव समग्र-शोभां,

सर्वज्ञ-लक्ष्मीं ज्वलितां विमुक्त:॥२७॥


शरीर-रश्मि-प्रसर: प्रभोस्ते,

बालार्क-रश्मिच्छवि-रालि-लेप।

नरा-मरा-कीर्ण-सभां प्रभावच्,

छैलस्य पद्‌माभ-मणे: स्व-सानुम्॥२८॥


नभस्तलं पल्लवयन्निव त्वं,

सहस्र-पत्राम्बुज-गर्भ-चारै:।

पादाम्बुजै: पातित-मार-दर्पो,

भूमौ प्रजानां विजहर्थ भूत्यै॥२९॥


गुणाम्बुधे र्विप्रुष- मप्यजस्रं,

नाखण्डल: स्तोतु-मलं तवर्षे:।

प्रागेव मादृक् किमु-ताति भक्तिर्,

मां बाल-माला-पय-तीदमित्थम्॥३०॥


श्रीसुपार्श्वजिनस्तवनम्

उपजाति छन्द:

स्वास्थ्यं यदात्यन्तिक-मेष पुंसां,

स्वार्थो न भोग: परिभङ् गु-रात्मा।

तृषोनुषङ्गान् न च तापशांति-,

रितीद-माख्याद् भगवान् सुपार्श्व:॥३१॥


अजङ्गमं जङ्गमनेय-यन्त्रं,

यथा तथा जीव-धृतं शरीरम्।

बीभत्सु पूति-क्षयि-तापकं च,

स्नेहो वृथात्रेति हितं त्व-माख्य:॥३२॥


अलंघ्य-शक्ति-र्भवितव्य-तेयं,

हेतु-द्वया-विष्कृत-कार्य-लिङ्गा।

अनीश्वरो जन्तु-रहं-क्रियात्र्त:,

संहत्य कार्येष्विति साध्ववादी:॥३३॥


बिभेति मृत्योर्न ततोस्ति मोक्षो,

नित्यं शिवं वाञ्छति नास्य लाभ:।

तथापि बालो भय-काम-वश्यो,

वृथा स्वयं तप्यत इत्यवादी:॥३४॥


सर्वस्य तत्त्वस्य भवान् प्रमाता,

मातेव बालस्य हितानुशास्ता।

गुणावलोकस्य जनस्य नेता,

मयापि भक्त्या परिणूयसेद्य॥ ३५॥


श्री चन्द्रप्रभजिनस्तवनम्

उपजाति छन्द:

चन्द्रप्रभं चन्द्र-मरीचि-गौरं,

चन्द्रं द्वितीयं जगतीव कान्तम्।

वन्देभिवन्द्यं महता-मृषीन्द्रं,

जिनं जित-स्वान्त-कषाय-बन्धम्॥३६॥


यस्याङ्ग-लक्ष्मी-परिवेष-भिन्नं,

तमस्तमोरेरिव रश्मि-भिन्नम्,

ननाश बाह्यं बहुमानसं च,

ध्यान-प्रदीपातिशयेन भिन्नम्॥३७॥


स्व-पक्ष-सौस्थित्य-मदावलिप्ता,

वाक्-सिंह-नादै-र्विमदा बभूवु:।

प्रवादिनो यस्य मदाद्र्र-गण्डा,

गजा यथा केसरिणो निनादै:॥३८॥


य: सर्वलोके परमेष्ठिताया:,

पदं बभूवाद्भुत- कर्म-तेजा:।

अनंत-धामाक्षर-विश्व- चक्षु:,

समन्त- दु:ख- क्षय-शासनश्च॥३९॥


स चन्द्रमा भव्य-कुमुद्-वतीनां,

विपन्न-दोषाभ्र-कलङ्क-लेप:।

व्याकोश-वाङ् -न्याय-मयूख-माल:,

पूयात् पवित्रो भगवान् मनो मे॥४०॥


श्रीसुविधिजिनस्तवनम्

उपजाति छन्द:

एकान्त-दृष्टि-प्रतिषेधि तत्त्वं,

प्रमाण-सिद्धं त-दतत्-स्वभावम्।

त्वया प्रणीतं सुविधे! स्वधाम्ना,

नैतत्समालीढ-पदं त्वदन्यै:॥४१॥


तदेव च स्यान् न तदेव च स्यात्,

तथाप्रतीतेस्तव तत्कथञ्चित्।

नात्यन्त-मन्यत्व-मनन्यता च,

विधेर्निषेधस्य च शून्य-दोषात्॥ ४२॥


नित्यं तदे-वेद-मिति प्रतीतेर्,

न नित्य-मन्यत्, प्रतिपत्ति-सिद्धे:।

न तद्विरुद्धं बहि-रन्तरङ्ग-

निमित्त-नैमित्तिक-योगतस्ते॥४३॥


अनेक-मेकं च पदस्य वाच्यं,

वृक्षा इति प्रत्ययवत् प्रकृत्या।

आकाङ्क्षिण: स्यादिति वै निपातो,

गुणानपेक्षे नियमेपवाद:॥४४॥


गुण-प्रधानार्थ-मिदं हि वाक्यं,

जिनस्य ते तद् द्विषता-मपथ्यम्।

ततोभिवन्द्यं जगदीश्वराणां,

ममापि साधोस्तव पाद-पद्‌मम्॥४५॥


श्रीशीतलजिनस्तवनम्

वंशस्थ छन्द:

न शीतलाश्-चन्दन- चन्द्र- रश्मयो,

न गाङ्गमम्भो न च हार-यष्टय:।

यथा मुनेस्तेनघ- वाक्य- रश्मय:,

शमाम्बु-गर्भा: शिशिरा-विपश्चिताम्॥४६॥


सुखाभि-लाषा-नल-दाह-मूच्र्छितं,

मनो निजं ज्ञान-मया-मृताम्बुभि:।

व्यदिध्य-पस्त्वं विष-दाह-मोहितं,

यथा भिषग्मन्त्रगुणै: स्व-विग्रहम्॥४७॥


स्व-जीविते काम-सुखे च तृष्णया,

दिवा श्रमार्ता निशि शेरते प्रजा:।

त्वमार्य नक्तंदिव-मप्रमत्तवा-

नजागरे-वात्म-विशुद्ध-वत्र्मनि॥४८॥


अपत्य-वित्तोत्तर-लोक-तृष्णया,

तपस्विन: केचन कर्म कुर्वते।

भवान् पुन र्जन्म-जरा-जिहासया,

त्रयीं प्रवृत्तिं समधी-रवारुणत्॥४९॥


त्व-मुत्तम- ज्योति-रज: क्व निर्वृत:,

क्व ते परे बुद्धि-लवोद्धव-क्षता:।

तत: स्व-नि:श्रेयस-भावना-परैर्,

बुध-प्रवेकै र्जिन-शीत-लेड्यसे॥५०॥


श्री श्रेयोजिनस्तवनम्

उपजाति छन्द:

श्रेयान् जिन: श्रेयसि वत्र्मनीमा:,

श्रेय: प्रजा: शास-दजेय-वाक्य:।

भवांश्चकासे भुवन-त्रयेस्मिन्,

नेको यथा वीत-घनो विवस्वान्॥५१॥


विधि र्विषक्त-प्रतिषेध-रूप:,

प्रमाण-मत्रान्यतरत्प्रधानम्।

गुणोपरो मुख्यनियाम-हेतुर्,

नय: स दृष्टान्त-समर्थनस्ते॥५२॥


विवक्षितो मुख्य इतीष्यतेन्यो,

गुणोविवक्षो न निरात्मकस्ते।

तथारि-मित्रानु-भयादि-शक्तिर्,

द्वया-वधि: कार्य-करं हि वस्तु॥५३॥


दृष्टान्त-सिद्धा-वुभयो-र्विवादे,

साध्यं प्रसिद्ध्येन् न तु तादृगस्ति।

यत्सर्वथैकान्त-नियामि-दृष्टं,

त्वदीय दृष्टि-र्विभवत्यशेषे॥५४॥


एकान्त-दृष्टि-प्रतिषेध-सिद्धिर्,

न्यायेषुभि र्मोहरिपुं निरस्य।

असि स्म कैवल्य-विभूति-सम्राट्,

ततस्त्व-मर्हन्नसि मे स्तवार्ह:॥५५॥


श्री वासुपूज्यजिनस्तवनम्

उपजाति छन्द:

शिवासु पूज्योभ्युदय-क्रियासु,

त्वं वासुपूज्यस् त्रिदशेन्द्र-पूज्य:।

मयापि पूज्योल्पधिया मुनीन्द्र!,

दीपार्चिषा किं तपनो न पूज्य:॥५६॥


न पूजयार्थस्त्वयि वीतरागे,

न निन्दया नाथ! विवान्त-वैरे।

तथापि ते पुण्य-गुणस्मृति र्न:,

पुनातु चित्तं दुरिताञ्जनेभ्य:॥५७॥


पूज्यं जिनं त्वार्चयतो जनस्य,

सावद्य-लेशो बहु-पुण्य-राशौ।

दोषाय नालं कणिका विषस्य,

न दूषिका शीत-शिवाम्बु-राशौ॥५८॥


यद्-वस्तु बाह्यं गुण-दोष-सूतेर्,

निमित्त-मभ्यन्तर-मूल-हेतो:।

अध्यात्म-वृत्तस्य तदङ्ग-भूत-.

मभ्यन्तरं केवल-मप्यलं ते॥५९॥


बाह्ये-तरो-पाधि-समग्र-तेयं,

कार्येषु ते द्रव्य-गत: स्वभाव:।

नैवान्यथा मोक्ष-विधिश्च पुंसां,

तेनाभि-वन्द्यस्त्व-मृषि-र्बुधानाम्॥६०॥


श्रीविमलजिनस्तवनम्

वंशस्थ छन्द:

य एव नित्य-क्षणिकादयो नया,

मिथोनपेक्षा: स्व-पर-प्रणाशिन:।

त एव तत्त्वं विमलस्य ते मुने:,

परस्परेक्षा: स्व-परोपकारिण:॥६१॥


यथैकश: कारक-मर्थ-सिद्धये,

समीक्ष्य शेषं स्व-सहाय-कारकम्।

तथैव सामान्य-विशेष-मातृका,

नयास्तवेष्टा गुण-मुख्य-कल्पत:॥६२॥


परस्परेक्षान्वय-भेद-लिङ्गत:,

प्रसिद्ध-सामान्य-विशेषयोस्तव।

समग्रतास्ति स्व-परावभासकं,

यथा प्रमाणं भुवि बुद्धि-लक्षणम्॥६३॥


विशेष्य-वाच्यस्य विशेषणं वचो,

यतो विशेष्यं विनियम्यते च यत्।

तयोश्च सामान्य-मति-प्रसज्यते,

विवक्षितात्स्यादिति तेन्यवर्जनम्॥६४॥


नयास्तव स्यात्पद-सत्य-लाञ्छिता,

रसोपविद्धा इव लोह-धातव:।

भवन्त्य-भिप्रेत-गुणा यतस्ततो,

भवन्तमार्या: प्रणता हितैषिण:॥६५॥


श्रीअनंतजिनस्तवनम्

वंशस्थ छन्द:

अनंत-दोषा-शय-विग्रहो ग्रहो,

विषङ्गवान् मोह-मयश्चिरं हृदि।

यतो जितस्तत्त्व-रुचौ प्रसीदता,

त्वया ततोभू र्भगवा-ननन्तजित्॥६६॥


कषायनाम्नां द्विषतां प्रमाथिना-,

मशेषयन्-नाम भवानशेषवित्।

विशोषणं मन्मथ-दुर्मदामयं,

समाधि-भैषज्य-गुणै व्र्यलीनयत्॥६७॥


परिश्रमाम्बुर्भय-वीचि-मालिनी,

त्वया स्व-तृष्णा-सरि-दार्य! शोषिता।

असङ्ग-घर्मार्क-गभस्ति-तेजसा,

परं ततो निर्वृति-धाम तावकम्॥ ६८॥


सुहृत्त्वयि श्रीसुभगत्व-मश्नुते,

द्विषंस्त्वयि प्रत्ययवत्प्रलीयते।

भवानु-दासी-नतमस्तयोरपि,

प्रभो परं चित्र-मिदं तवे-हितम्॥६९॥


त्व-मीदृशस्तादृश इत्ययं मम,

प्रलाप-लेशोल्प-मते र्महामुने!।

अशेष-माहात्म्य-मनी-रयन्-नपि,

शिवाय संस्पर्श इवामृताम्बुधे:॥७०॥


श्रीधर्मजिनस्तवनम्

रथोद्धता छन्द:

धर्म-तीर्थ-मनघं प्रवर्तयन्,

धर्म इत्यनुमत: सतां भवान्।

कर्म-कक्ष-मद-हत्तपोग्निभि:

शर्म शाश्वत-मवाप शङ्कर:॥७१॥


देव-मानव-निकाय-सत्तमै-

रेजिषे परिवृतो वृतो बुधै:।

तारका-परिवृतोति-पुष्कलो,

व्योमनीव शश-लाञ्छनोमल:॥७२॥


प्रातिहार्य-विभवै: परिष्कृतो,

देहतोपि विरतो भवा-नभूत्।

मोक्ष-मार्ग-मशिषन् नरामरान्,

नापि शासन-फलैषणातुर:॥७३॥


काय-वाक्य-मनसां प्रवृत्तयो,

नाभवंस्तव मुनेश्चिकीर्षया।

नासमीक्ष्य भवत: प्रवृत्तयो,

धीर! तावक-मचिन्त्य-मीहितम्॥७४॥


मानुषीं प्रकृति-मभ्य-तीतवान्,

देवता-स्वपि च देवता यत:।

तेन नाथ! पर-मासि देवता,

श्रेयसे जिनवृष! प्रसीद न:॥७५॥


श्रीशांतिजिनस्तवनम्

उपजाति छन्द:

विधाय रक्षां परत: प्रजानां,

राजा चिरं योप्रतिम-प्रताप:।

व्यधात्पुरस्तात्स्वत एव शांतिर्,

मुनि र्दयामूर्ति-रिवाघ-शांतिम्॥७६॥


चक्रेण य: शत्रु-भयंकरेण,

जित्वा नृप: सर्वनरेन्द्र-चक्रम्।

समाधि-चक्रेण पुनर्जिगाय,

महोदयो दुर्जय-मोह-चक्रम्॥ ७७॥


राज-श्रिया राजसु राज-सिंहो,

रराज यो राजसुभोग-तन्त्र:।

आर्हन्त्य-लक्ष्म्या पुन-रात्म-तन्त्रो,

देवा-सुरो-दार-सभे रराज॥७८॥


यस्मिन् नभूद्राजनि राज-चक्रं,

मुनौ दया-दीधिति-धर्मचक्रम्।

पूज्ये मुहु: प्राञ्जलि-देव-चक्रं,

ध्यानोन्मुखे ध्वंसि कृतान्तचक्रम्॥७९॥


स्व-दोष-शान्त्या विहितात्म-शांति:,

शान्ते र्विधाता शरणं गतानाम्।

भूयाद् भव-क्लेश-भयोप-शान्त्यै,

शांतिर्जिनो मे भगवान् शरण्य:॥८०॥


श्रीकुंथुजिनस्तवनम्

वसन्ततिलका छन्द:

कुंथु- प्रभृत्य- खिल-सत्त्व-दयैक- तान:,

कुंथुर्जिनो ज्वर-जरा-मरणोपशान्त्यै।

त्वं धर्म-चक्र-मिह वर्तयसि स्म भूत्यै,

भूत्वा पुरा क्षिति- पतीश्वर-चक्रपाणि:॥८१॥


तृष्णार्चिष: परिदहन्ति न शांति-रासा-

मिष्टेन्द्रियार्थ- विभवै: परिवृद्धि-रेव।

स्थित्यैव काय-परिताप-हरं निमित्त-

मित्यात्मवान् विषयसौख्य-पराङ् मुखोभूत्॥८२॥


बाह्यं तप: परम- दुश्चरमा-चरंस्त्व-

माध्यात्मिकस्य तपस: परिबृंहणार्थम्।

ध्यानं निरस्य कलुष-द्वय मुत्तरस्मिन्,

ध्यानद्वये ववृतिषेति-शयोपपन्ने॥८३॥


हुत्वा स्व- कर्म-कटुक- प्रकृतीश्चतस्रो,

रत्नत्रयातिशय-तेजसि जात-वीर्य:।

बभ्राजिषे सकल-वेद-विधे र्विनेता,

व्यभ्रे यथा वियति दीप्त-रुचि-र्विवस्वान्॥८४॥


यस्मान् मुनीन्द्र! तव लोक- पिता- महाद्या,

विद्या- विभूति- कणिका- मपि नाप्नुवन्ति।

तस्माद् भवन्त-मज-मप्रतिमेय-मार्या:,

स्तुत्यं स्तुवन्ति सुधिय: स्व-हितैकताना:॥८५॥


श्रीअरजिनस्तवनम्

पथ्यावक्तं छन्द:

गुण-स्तोकं सदुल्लङ्घ्य, तद्-बहुत्व-कथास्तुति:।

आनन्त्यात्ते गुणा वक्तु-, मशक्यास्त्वयि सा कथम्॥८६॥

तथापि ते मुनीन्द्रस्य, यतो नामापि कीर्तितम्।

पुनाति पुण्य-कीर्तेर्नस्, ततो, ब्रूयाम किञ्चन॥८७॥


लक्ष्मी- विभव- सर्वस्वं, मुमुक्षोश्चक्र- लाञ्छनम्।

साम्राज्यं सार्व-भौमं ते, जरत् तृणमिवा-भवत्॥८८॥


तव रूपस्य सौन्दर्यं, दृष्ट्वा तृप्ति-मनापिवान्।

द्वयक्ष: शक्र: सहस्राक्षो, बभूव बहु-विस्मय:॥८९॥


मोह-रूपो रिपु: पाप:, कषाय-भट-साधन:।

दृष्टि-संपदुपेक्षास्त्रै-स्त्वया धीर! पराजित:॥९०॥


कन्दर्पस्योद्धरो दर्पस्, त्रैलोक्य-विजयार्जित:।

ह्रेपयामास तं धीरे, त्वयि प्रतिहतोदय:॥९१॥


आयत्यां च तदात्वे च, दु:ख-योनि-र्दुरुत्तरा।

तृष्णा-नदी त्वयोत्तीर्णा, विद्या-नावा विविक्तया॥९२॥


अन्तक: क्रन्दको नृणां, जन्म-ज्वर- सख: सदा।

त्वा-मन्त-कान्तकं प्राप्य, व्यावृत्त: काम-कारत:॥९३॥


भूषा- वेषा- युध- त्यागि, विद्या- दम- दया- परम्।

रूप-मेव तवाचष्टे, धीर! दोष-विनिग्रहम्॥९४॥


समन्ततोङ्ग-भासां ते, परिवेषेण भूयसा।

तमो बाह्य-मपाकीर्ण-मध्यात्मं ध्यान-तेजसा॥९५॥


सर्वज्ञ-ज्योतिषोद्भूतस्, तावको महिमोदय:।

कं न कुर्यात् प्रणम्रं ते, सत्त्वं नाथ! सचेतनम्॥९६॥


तव वागमृतं श्रीमत्, सर्व- भाषा- स्वभावकम्।

प्रीणयत्यमृतं यद्-वत्, प्राणिनो व्यापि संसदि॥९७॥


अनेकान्तात्म-दृष्टिस्ते, सती शून्यो विपर्यय:।

तत: सर्वं मृषोक्तं स्यात्, तदयुक्तं स्वघातत:॥९८॥


ये परस्खलितोन्-निद्रा:, स्वदोषेभ-निमीलिन:।

तपस्विनस्ते किं कुर्यु-रपात्रं त्वन्मतश्रिय:॥९९॥


ते तं स्व-घातिनं दोषं, शमी-कर्तु- मनीश्वरा:।

त्वद्विष: स्वहनो बालास्, तत्त्वा-वक्तव्यतां श्रिता:॥१००॥


सदेक-नित्य-वक्तव्यास्, तद्विपक्षाश्च ये नया:।

सर्वथेति प्रदुष्यन्ति, पुष्यन्ति स्या-दितीह ते॥ १०१॥


सर्वथा नियम-त्यागी, यथादृष्ट-मपेक्षक:।

स्याच्छब्दस्तावके न्याये, नान्येषा-मात्म-विद्विषाम्॥१०२॥


अनेकान्तोप्यनेकान्त:, प्रमाण- नय- साधन:।

अनेकान्त: प्रमाणात् ते, तदेकान्तोर्पितान्नयात् ॥१०३॥


इति निरुपम-युक्त-शासन:, प्रिय-हित-योग-गुणानुशासन:।

अरजिन!दम-तीर्थ-नायकस्, त्वमिव सतां प्रतिबोधनाय क:॥१०४।।


मति-गुण-विभवानुरूपतस्, त्वयि वरदागम-दृष्टि-रूपत:।

गुणकृशमपि किञ्चनोदितं, मम भवताद् दुरितासनोदितम्॥१०५।।


श्री मल्लिजिनस्तवनम्

श्रीछन्द: अथवा सान्द्रपदं छन्द:

यस्य महर्षे: सकल- पदार्थ-

प्रत्यवबोध: समजनि साक्षात्।

सामर-मत्र्यं जगदपि सर्वं,

प्राञ्जलि भूत्वा प्रणिपतति स्म॥१०६॥


यस्य च मूर्ति: कनक-मयीव,

स्वस्फुर-दाभा-कृत-परिवेषा।

वागपि तत्त्वं कथयितु-कामा,

स्यात्पद-पूर्वा रमयति साधून्॥१०७॥


यस्य पुरस्ताद् विगलित-माना,

न प्रतितीथ्र्या भुवि विवदन्ते।

भू-रपि रम्या प्रति-पद-मासीज्,

जात-विकोशाम्बुज-मृदु-हासा॥१०८॥


यस्य समन्ताज् जिन-शिशि-रांशो:,

शिष्यक-साधु-ग्रह-विभवोभूत्।

तीर्थ-मपि स्वं जनन-समुद्र-,

त्रासित-सत्त्वोत्तरण-पथोग्रम्॥१०९॥


यस्य च शुक्लं परम-तपोग्निर्,

ध्यान-मनन्तं दुरित-मधाक्षीत्।

तं जिन-सिंहं कृत-करणीयं,

मल्लि-मशल्यं शरण-मितोस्मि ॥११०॥


श्री मुनिसुव्रतजिनस्तवनम्

वैतालीयं छन्द:

अधिगत-मुनिसुव्रत-स्थितिर्,

मुनि-वृषभो मुनि-सुव्रतोनघ:।

मुनि-परिषदि-निर्बभौ भवा-,

नुडु-परिषत्परिवीत-सोमवत्॥१११॥


परिणत-शिखि-कण्ठ-रागया,

कृत-मद-निग्रह-विग्रहा-भया।

तव जिन! तपस: प्रसूतया,

ग्रह-परिवेष-रुचेव शोभितम्॥११२॥


शशि-रुचि-शुचि-शुक्ल-लोहितं,

सुरभि-तरं विरजो निजं वपु:।

तव शिव-मति-विस्मयं यते!

यदपि च वाङ्मनसीय-मीहितम्॥११३॥


स्थिति-जनन-निरोध-लक्षणं,

चर-मचरं च जगत् प्रतिक्षणम्।

इति जिन! सकलज्ञ-लाञ्छनं,

वचन-मिदं वदतां-वरस्य ते॥११४॥


दुरित-मल-कलङ्क-मष्टकं,

निरुपम-योग-बलेन-निर्दहन्।

अभव-दभव-सौख्यवान् भवान्,

भवतु ममापि भवोपशान्तये॥११५॥


श्री नमिजिनस्तवनम्

शिखरिणी छन्द:

स्तुति: स्तोतु: साधो:, कुशल-परिणामाय स तदा,

भवेन् मा वा स्तुत्य:, फल-मपि ततस्तस्य च सत:।

कि-मेवं स्वाधीन्याज्, जगति सुलभे श्रायस-पथे,

स्तुयान् न त्वा विद्वान्, सतत-मभिपूज्यं नमि-जिनम्॥११६॥


त्वया धीमन्! ब्रह्म, प्रणिधि- मनसा जन्म- निगलं,

समूलं निर्भिन्नं, त्व-मसि विदुषां मोक्ष-पदवी।

त्वयि ज्ञान- ज्योतिर्, विभव-किरणै र्भाति भगवन्,

नभूवन् खद्योता, इव शुचि-रवा-वन्य-मतय:॥११७॥


विधेयं वार्यं चा, -नुभय-मुभयं मिश्र-मपि तद्,

विशेषै: प्रत्येकं, नियम-विषयैश्चा-परिमितै:।

सदान्योन्यापेक्षै:, सकल-भुवन-ज्येष्ठ-गुरुणा,

त्वया गीतं तत्त्वं, बहु-नय-विवक्षेतर-वशात्॥११८॥


अहिंसा भूतानां, जगति विदितं ब्रह्म-परमं,

न सा तत्रारम्भोस्, - त्यणुरपि च यत्राश्रम-विधौ।

ततस्तत्- सिद्ध्यर्थं, परम- करुणो ग्रन्थ- मुभयं,

भवानेवात्याक्षीन्, न च विकृत-वेषो-पधि-रत:॥११९॥


वपुर्भूषावेष-व्यवधि-रहितं शान्तकरणं,

यतस्ते संचष्टे, स्मरशरविषातंक-विजयम्,

विना भीमै: शस्त्रै-रदय-हृदयामर्ष-विलयं,

ततस्त्वं निर्मोह:, शरणमसि न: शांतिनिलय:॥ १२०॥


श्री अरिष्टनेमिजिनस्तवनम्

विषमजातावुद्गता छन्द:

भगवा- नृषि: परम- योग- दहन- हुत- कल्मषेन्धन:।

ज्ञान-विपुल-किरणै: सकलं, प्रतिबुद्ध्य-बुद्ध-कमलाय-तेक्षण: ।।१२१।।


हरिवंश- केतु- रनवद्य-विनय- दम- तीर्थ- नायक:।

शील-जलधिरभवो विभवस्त्वमरिष्टनेमिजिन-कुञ्जरोजर: ।।१२२।।


त्रि- दशेन्द्र-मौलि-मणि-रत्न-किरण-विसरोप- चुम्बितम्।

पाद-युगल-ममलंभवतो,विकसत्-कुशेशय-दलारुणोदरम्॥१२३।।


नख-चन्द्र-रश्मि-कवचाति-रुचिर-शिखराङ्गुलि- स्थलम्।

स्वार्थ-नियत-मनस:सुधिय:, प्रणमन्ति मन्त्र-मुखरा महर्षय:।।१२४।।


द्युति-मद्र-थाङ्ग-रवि- बिम्ब-किरण- जटिलांशु- मण्डल:।

नील-जलद-जल-राशि-वपु:सहबन्धुभिर्गरुड-केतुरीश्वर:॥१२५।।


हल-भृच्च ते स्वजन- भक्ति- मुदित- हृदयौ जनेश्वरौ।

धर्म-विनय-रसिकौ सुतरां, चरणारविन्द-युगलं प्रणेमतु:॥१२६।।


ककुदं भुव: खचर- योषि-दुषित- शिखरै-रलङ्कृत:।

मेघ-पटल-परिवीत-तटस्तव,लक्षणानिलिखितानि वज्रिणा॥१२७।।


वहतीति तीर्थ- मृषिभिश्च, सतत- मभि- गम्यतेद्य च।

प्रीति-विततहृदयै: परितो, भृशमूर्जयन्त इति विश्रुतोचल:॥१२८।।


बहि-रन्त-रप्यु-भयथा च, करण- मविघाति नार्थकृत्।

नाथ! युगपदखिलं च सदा, त्वमिदं तलामलकवद्-विवेदिथ॥१२९।।


अत एव ते बुध- नुतस्य, चरित- गुण-मद्-भुतो-दयम्।

न्यायविहितमवधार्य जिने, त्वयि सुप्रसन्नमनस: स्थिता वयम्॥१३०।।


श्री पार्श्वजिनस्तवनम्

वंशस्थ छन्द:

तमाल-नीलै: सधनुस्तडिद्-गुणै:,

प्रकीर्ण-भीमा-शनि-वायु-वृष्टिभि:।

बलाहकै र्वैरि-वशैरुपद्रुतो,

महा-मना यो न चचाल योगत:॥१३१॥


बृहत्फणा-मण्डल-मण्डपेन यं,

स्फुरत्तडित्पिङ्ग-रुचोपसर्गिणम्।

जुगूह नागो धरणो धराधरं,

विराग-संध्या-तडि-दम्बुदो यथा॥१३२॥


स्वयोगनि-स्त्रिंशनिशातधारया,

निशात्य यो दुर्जयमोह-विद्विषम्।

अवापदार्हन्त्यमचिन्त्यमद्भुतं,

त्रिलोक-पूजातिशयास्पदं पदम्॥ १३३॥


यमीश्वरं वीक्ष्य विधूत-कल्मषं,

तपोधनास्तेपि तथा बुभूषव:।

वनौकस: स्व-श्रम-बन्ध्य-बुद्धय:,

शमोपदेशं शरणं प्रपेदिरे॥१३४॥


स सत्य-विद्या-तपसां प्रणायक:,

समग्रधी-रुग्र-कुलाम्बरांशुमान्।

मया सदा पार्श्व-जिन: प्रणम्यते,

विलीन-मिथ्या-पथ-दृष्टि-विभ्रम:॥१३५॥


श्री वीरजिनस्तवनम्

स्कन्धकछन्द: अथवा आर्यागीति छन्द:

कीत्र्या भुवि भासि तया,

वीर! त्वं गुण-समुच्छ्रया भासितया,

भासोडु-सभासितया,

सोम इव व्योम्नि कुन्द-शोभासितया॥१३६॥


तव जिन! शासन-विभवो,

जयति कला-वपि गुणानुशासन-विभव:।

दोष-कशासन-विभव:,

स्तुवन्ति चैनं प्रभा-कृशासन-विभव:॥१३७॥


अनवद्य: स्याद्वादस्,

तव दृष्टेष्टाविरोधत: स्याद्वाद:।

इतरो न स्याद्वाद:,

स द्वितय-विरोधान् मुनीश्वरास्याद्वाद:॥१३८॥


त्व-मसि सुरासुर-महितो,

ग्रन्थिक-सत्त्वाशय-प्रणामा-महित:।

लोक-त्रय-परमहितो-

नावरण-ज्योति-रुज्ज्वलद्-धाम-हित:॥१३९॥


सभ्याना-मभिरुचितं,

दधासि गुण-भूषणं श्रिया चारु-चितम्।

मग्नं स्वस्यां रुचितं,

जयसि च मृगलाञ्छनं स्वकान्त्या रुचितम्॥१४०॥


त्वं जिन! गत-मद-मायस्,

तव भावानां मुमुक्षु-कामद! माय:।

श्रेयान् श्रीमद-मायस्,

त्वया समादेशि स प्रयामदमाय:॥१४१॥


गिरि-भित्त्यवदान-वत:,

श्रीमत इव दन्तिन: स्रवद्-दानवत:।

तव शम-वादानवतो,

गत-मूर्जित-मपगत-प्रमादान वत:॥१४२॥


बहु गुण-सम्प-दसकलं,

परमत-मपि-मधुर-वचन-विन्यासकलम्।

नय-भक्त्यवतंसकलं,

तव देव! मतं समन्तभद्रं सकलम्॥१४३॥