समाधि तंत्र

येनात्माबुध्यतात्मैव परत्वेनैव चापरम्।

अक्षयानन्तबोधाय तस्मै सिद्धात्मने नम:॥१॥


जयन्ति यस्यावदतोपि भारती

विभूतयस्तीर्थकृतोप्यनीहितु:।

शिवाय धात्रे सुगताय विष्णवे

जिनाय तस्मै सकलात्मने नम:॥२॥


श्रुतेन लिङ्गेन यथात्मशक्ति समाहितान्त:करणेन सम्यक् ।

समीक्ष्य कैवल्यसुखस्पृहाणां विविक्तमात्मानमथाभिधास्ये॥३॥


बहिरन्त: परश्चेति त्रिधात्मा सर्वदेहिषु।

उपेयात्तत्र परमं मध्योपायाद् बहिस्त्यजेत्॥४॥


बहिरात्मा शरीरादौ जातात्मभ्रान्तिरान्तर:।

चित्तदोषात्मविभ्रान्ति:, परमात्मातिनिर्मल:॥५॥


निर्मल: केवल: शुद्धो विविक्त: प्रभुरव्यय:।

परमेष्ठी परात्मेति परमात्मेश्वरो जिन:॥६॥


बहिरात्मेन्द्रियद्वारै - रात्मज्ञानपराङ्मुख:।

स्फुरित: स्वात्मनो देहमात्मत्वेनाध्यवस्यति॥७॥


नरदेहस्थमात्मान - मविद्वान् मन्यते नरम्।

तिर्यञ्चं तिर्यगङ्गस्थं सुराङ्गस्थं सुरं तथा॥८॥


नारकं नारकाङ्गस्थं न स्वयं तत्त्वतस्तथा।

अनन्तानन्तधीशक्ति: स्वसंवद्योचलस्थिति:॥९॥


स्वदेहसदृशं दृष्ट्वा परदेहमचेतनम्।

परात्माधिष्ठितं मूढ: परत्वेनाध्यवस्यति॥१०॥


स्वपराध्यवसायेन देहेष्वविदितात्मनाम्।

वर्तते विभ्रम: पुंसां पुत्रभार्यादिगोचर:॥११॥


अविद्यासंज्ञितस्तस्मात् संस्कारो जायते दृढ:।

येन लोकोङ्गमेव स्वं पुनरप्यभिमन्यते॥१२॥


देहे स्वबुद्धिरात्मानं युनक्त्येतेन निश्चयात्।

स्वात्मन्येवात्मधीस्तस्माद्वियोजयति देहिनम्॥१३॥


देहेष्वात्मधिया जाता: पुत्रभार्यादिकल्पना:।

सम्पत्तिमात्मनस्ताभि र्मन्यते हा हतं जगत्॥१४॥


मूलं संसारदु:खस्य देह एवात्मधीस्तत:।

त्यक्त्त्वैनां प्रविशेदन्त - र्बहिरव्यापृतेन्द्रिय:॥१५॥


मत्तश्च्युत्वेन्द्रियद्वारै: पतितो विषयेष्वहम् ।

तान् प्रपद्याहमिति मां पुरा वेद न तत्त्वत:॥१६॥


एवं त्यक्त्वा बहिर्वाचं त्यजेदन्तरशेषत:।

एष योग: समासेन प्रदीप: परमात्मन:॥१७॥


यन्मया दृश्यते रूपं तन्न जानाति सर्वथा।

जानन्न दृश्यते रूपं तत: केन ब्रवीम्यहम्॥१८॥


यत्परै: प्रतिपाद्योहं यत्परान् प्रतिपादये।

उन्मत्तचेष्टितं तन्मे यदहं निर्विकल्पक:॥१९॥


यदग्राह्यं न गृह्णाति गृहीतं नैव मुञ्चति।

जानाति सर्वथा सर्वं तत्स्वसंवेद्यमस्म्यहम्॥२०॥


उत्पन्नपुरुषभ्रान्ते: स्थाणौ यद्वद्विचेष्टितम्।

तद्वन्मे चेष्टितं पूर्वं देहादिष्वात्मविभ्रमात्॥२१॥


यथासौ चेष्टते स्थाणौ निवृत्ते पुरुषाग्रहे।

तथा चेष्टोस्मि देहादौ विनिवृत्तात्मविभ्रम:॥२२॥


येनात्मनानुभूयेह - मात्मनैवात्मनात्मनि।

सोहं न तन्न सा नासौ नैको न द्वौ न वा बहु:॥२३॥


यदभावे सुषुप्तोहं यद्भावे व्युत्थित: पुन:।

अतीन्द्रियमनिर्देश्यं तत्स्वसंवेद्यमस्म्यहम् ॥२४॥


क्षीयन्तेत्रैव रागाद्यास्तत्त्वतो मां प्रपश्यत:।

बोधात्मानं तत: कश्चिन्न मे शत्रुर्न च प्रिय:॥२५॥


मामपश्यन्नयं लोको न मे शत्रुर्न च प्रिय:।

मां प्रपश्यन्नयं लोको न मे शत्रुर्न च प्रिय:॥२६॥


त्यक्त्वैवं बहिरात्मान - मन्तरात्मव्यवस्थित:।

भावयेत् परमात्मानं सर्वसङ्कल्पवर्जितम्॥२७॥


सोहमित्यात्तसंस्कारस्तस्मिन् भावनया पुन:।

तत्रैव दृढसंस्काराल्लभते ह्यात्मनि स्थितिम्॥२८॥


मूढात्मा यत्र विश्वस्तस्ततो नान्यद्भयास्पदम्।

यतो भीतस्ततो नान्यदभयस्थानमात्मन:॥२९॥


सर्वेन्द्रियाणि संयम्य स्तिमितेनान्तरात्मना।

यत्क्षणं पश्यतो भाति तत्तत्त्वं परमात्मन:॥३०॥


य: परात्मा स एवाहं योहं स परमस्तत:।

अहमेव मयोपास्यो नान्य:कश्चिदिति स्थिति:॥३१॥


प्रच्याव्य विषयेभ्योहं मां मयैव मयि स्थितम्।

बोधात्मानं प्रपन्नोस्मि परमानन्दनिर्वृतम्॥३२॥


यो न वेत्ति परं देहादेवमात्मानमव्ययम्।

लभते स न निर्वाणं तप्त्वापि परमं तप:॥३३॥


आत्मदेहान्तरज्ञान - जनिताह्लादनिर्वृत:।

तपसा दुष्कृतं घोरं भुञ्जानोपि न खिद्यते॥३४॥


रागद्वेषादिकल्लोलैरलोलं यन्मनोजलम्।

स पश्यत्यात्मनस्तत्त्वं तत् तत्त्वं नेतरो जन:॥३५॥


अविक्षिप्तं मनस्तत्त्वं विक्षिप्तं भ्रान्तिरात्मन:।

धारयेत्तदविक्षिप्तं विक्षिप्तं नाश्रयेत्तत:॥३६॥


अविद्याभ्याससंस्कारै - रवशं क्षिप्यते मन:।

तदेवज्ञानसंस्कारै: स्वतस्तत्त्वेवतिष्ठते॥३७॥


अपमानादयस्तस्य विक्षेपो यस्य चेतस:।

नापमानादयस्तस्य न क्षेपो यस्य चेतस:॥३८॥


यदा मोहात्प्रजायेते रागद्वेषौ तपस्विन:।

तदैव भावयेत्स्वस्थमात्मानं शाम्यत: क्षणात्॥३९॥


यत्र काये मुने: प्रेम तत: प्रच्याव्य देहिनम्।

बुद्ध्या तदुत्तमे काये योजयेत्प्रेम नश्यति॥४०॥


आत्म - विभ्रमजं दु:खमात्मज्ञानात्प्रशाम्यति।

नायतास्तत्र निर्वान्ति कृत्वापि परमं तप:॥४१॥


शुभं शरीरं दिव्यांश्च विषयानभिवाञ्छति।

उत्पन्नात्ममतिर्देहे तत्त्वज्ञानी ततश्च्युतिम्॥४२॥


परत्राहम्मति: स्वस्माच्च्युतो बध्नात्यसंशयम्।

स्वस्मिन्नहम्मतिश्च्युत्वा परस्मान्मुच्यते बुध:॥४३॥


दृश्यमानमिदं मूढिलिङ्गमवबुध्यते।

इदमित्यवबुद्धस्तु निष्पन्नं शब्दवर्जितम्॥४४॥


जानन्नप्यात्मनस्तत्त्वं विविक्तं भावयन्नपि।

पूर्वविभ्रमसंस्काराद् भ्रान्तिं भूयोपि गच्छति॥४५॥


अचेतनमिदं दृश्यमदृश्यं चेतनं तत:।

क्व रुष्यामि क्व तुष्यामि मध्यस्थोहं भवाम्यत:॥४६॥


त्यागादाने बहिर्मूढ: करोत्यध्यात्ममात्मवित्।

नान्तर्बहिरुपादानं न त्यागो निष्ठितात्मन:॥४७॥


युञ्जीत मनसात्मानं वाक्कायाभ्यां वियोजयेत्।

मनसा व्यवहारं तु त्यजेद्वाक्काययोजितम्॥४८॥


जगद्देहात्मदृष्टीनां विश्वास्यं रम्यमेव च।

स्वात्मन्येवात्मदृष्टीनां क्व विश्वास: क्व वा रति:॥४९॥


आत्मज्ञानात्परं कार्यं न बुद्धौ धारयेच्चिरम्।

कुर्यादर्थवशात्किञ्चिद्वाक्कायाभ्यामतत्पर:॥५०॥


यत्पश्यामीन्द्रियैस्तन्मे नास्ति यन्नियतेन्द्रिय:।

अन्त: पश्यामि सानन्दं तदस्तु ज्योतिरुत्तमम्॥५१॥


सुखमारब्धयोगस्य बहिर्दु:खमथात्मनि।

बहिरेवासुखं सौख्यमध्यात्मं भावितात्मन:॥५२॥


तद् ब्रूयात्तत्परान् पृच्छेत्तदिच्छेत्तत्परो भवेत्।

येनाविद्यामयं रूपं त्यक्त्वा विद्यामयं व्रजेत्॥५३॥


शरीरे वाचि चात्मानं सन्धत्ते वाक्शरीरयो:।

भ्रान्तोभ्रान्त: पुनस्तत्त्वं पृथगेषां निबुध्यते॥५४॥


न तदस्तीन्द्रियार्थेषु यत्क्षेमङ्करमात्मन:।

तथापि रमते बालस्तत्रैवाज्ञानभावनात्॥५५॥


चिरं सुषुप्तास्तमसि मूढात्मान: कुयोनिषु।

अनात्मीयात्मभूतेषु ममाहमिति जाग्रति॥५६॥


पश्येन्निरन्तरं देहमात्मनोनात्मचेतसा।

अपरात्मधियान्येषामात्मतत्त्वे व्यवस्थित:॥५७॥


अज्ञापितं न जानन्ति यथा मां ज्ञापितं तथा।

मूढात्मानस्ततस्तेषां वृथा मे ज्ञापनश्रम:॥५८॥


यद्बोधयितुमिच्छामि तन्नाहं यदहं पुन:।

ग्राह्यं तदपि नान्यस्य तत्किमन्यस्य बोधये॥५९॥


बहिस्तुष्यति मूढात्मा पिहितज्योतिरन्तरे।

तुष्यत्यन्त: प्रबुद्धात्मा बहिव्र्यावृत्तकौतुक:॥६०॥


न जानन्ति शरीराणि सुखदु:खान्यबुद्धय:।

निग्रहानुग्रहधियं तथाप्यत्रैव कुर्वते ॥६१॥


स्वबुद्ध्या यावद् गृह्णीयात् कायवाक्चेतसां त्रयम्

संसारस्तावदेतेषां भेदाभ्यासे तु निर्वृति:॥६२॥


घने वे यथात्मानं न घनं मन्यते तथा।

घने स्वदेहेप्यात्मानं न घनं मन्यते बुध:॥६३॥


जीर्णे वे यथात्मानं न जीर्णं मन्यते तथा।

जीर्णे स्वदेहेप्यात्मानं न जीर्णं मन्यते बुध:॥६४॥


नष्टे वे यथात्मानं न नष्टं मन्यते तथा।

नष्टे स्वदेहेप्यात्मानं न नष्टं मन्यते बुध:॥६५॥


रक्ते वे यथात्मानं न रक्तं मन्यते तथा।

रक्ते स्वदेहेप्यात्मानं न रक्तं मन्यते बुध:॥६६॥


यस्य सस्पन्दमाभाति नि:स्पन्देन समं जगत्।

अप्रज्ञमक्रियाभोगं स शमं याति नेतर: ॥६७॥


शरीरकञ्चुकेनात्मा संवृतज्ञानविग्रह:।

नात्मानं बुध्यते तस्माद् भ्रमत्यतिचिरं भवे॥६८॥


प्रविशद्गलतां व्यूहे देहेणूनां समाकृतौ।

स्थितिभ्रान्त्या प्रपद्यन्ते तमात्मानमबुद्धय:॥६९॥


गौर: स्थूल: कृशो वाहमित्यङ्गेनाविशेषयन्।

आत्मानं धारयेन्नित्यं केवलज्ञप्तिविग्रहम् ॥७०॥


मुक्तिरेकान्तिकी तस्य चित्ते यस्याचला धृति:।

तस्य नैकान्तिकी मुक्तिर्यस्य नास्त्यचला धृति:॥७१॥


जनेभ्यो वाक् तत: स्पन्दो मनसश्चित्तविभ्रमा:।

भवन्ति तस्मात्संसर्गं जनैर्योगी ततस्त्यजेत्॥७२॥


ग्रामोरण्यमिति द्वेधा निवासोनात्मदर्शिनाम्।

दृष्टात्मनां निवासस्तु विविक्तात्मैव निश्चल:॥७३॥


देहान्तरगतेर्बीजं देहेस्मिन्नात्मभावना।

बीजं विदेहनिष्पत्तेरात्मन्येवात्मभावना ॥७४॥


नयत्यात्मानमात्मैव जन्म निर्वाणमेव च।

गुरुरात्मात्मनस्तस्मान्नान्योस्ति परमार्थत:॥७५॥


दृढात्मबुद्धिर्देहादावुत्पश्यन्नाशमात्मन: ।

मित्रादिभिर्वियोगं च बिभेति मरणाद् भृशम् ॥७६॥


आत्मन्येवात्मधीरन्यां शरीरगतिमात्मन:।

मन्यते निर्भयं त्यक्त्वा वं वान्तरग्रहम्॥७७॥


व्यवहारे सुषुप्तो य: स जागत्र्यात्मगोचरे।

जागर्ति व्यवहारेस्मिन् सुषुप्तश्चात्मगोचरे॥७८॥


आत्मानमन्तरे दृष्ट्वा दृष्ट्वा देहादिकं बहि:।

तयोरन्तरविज्ञानादभ्यासादच्युतो भवेत्॥७९॥


पूर्वं दृष्टात्मतत्त्वस्य विभात्युन्मत्तवज्जगत्।

स्वभ्यस्तात्मधिय: पश्चात् काष्ठपाषाणरूपवत्॥८०॥


शृण्वन्नप्यन्यत: कामं वदन्नपि कलेवरात्।

नात्मानं भावयेद्भिन्नं यावत्तावन्न मोक्षभाक्॥८१॥


तथैव भावयेद्देहाद् व्यावृत्यात्मानमात्मनि।

यथा न पुनरात्मानं देहे स्वप्नेपि योजयेत्॥८२॥


अपुण्यमव्रतै: पुण्यं व्रतैर्मोक्षस्तयोव्र्यय:।

अव्रतानीव मोक्षार्थी व्रतान्यपि ततस्त्यजेत्॥८३॥


अव्रतानि परित्यज्य व्रतेषु परिनिष्ठित:।

त्यजेत्तान्यपि संप्राप्य परमं पदमात्मन:॥८४॥


यदन्तर्जल्पसंपृक्तमुत्प्रेक्षाजालमात्मन: ।

मूलं दु:खस्य तन्नाशे शिष्टमिष्टं परं पदम्॥८५॥


अव्रती व्रतमादाय व्रती ज्ञानपरायण:।

परात्मज्ञानसम्पन्न: स्वयमेव परो भवेत्॥८६॥


लिङ्गं देहाश्रितं दृष्टं देह एवात्मनो भव:।

न मुच्यन्ते भवात्तस्मात्ते ये लिङ्गकृताग्रहा:॥८७॥


जातिर्देहाश्रिता दृष्टा देह एवात्मनो भव:।

न मुच्यन्ते भवात्तस्मात्ते ये जातिकृताग्रहा:॥८८॥


जातिलिङ्गविकल्पेन येषां च समयाग्रह:।

तेपि न प्राप्नुवन्त्येव परमं पदमात्मन:॥८९॥


यत्त्यागाय निवर्तन्ते भोगेभ्यो यदवाप्तये।

प्रीतिं तत्रैव कुर्वन्ति द्वेषमन्यत्र मोहिन:॥९०॥


अनन्तरज्ञ: सन्धत्ते दृष्टिं पङ्गोर्यथान्धके।

संयोगात् दृष्टिमङ्गेपि सन्धत्ते तद्वदात्मन:॥९१॥


दृष्टभेदो यथा दृष्टिं पङ्गोरन्धे न योजयेत्।

तथा न योजयेद् देहे दृष्टात्मा दृष्टिमात्मन:॥९२॥


सुप्तोन्मत्ताद्यवस्थैव विभ्रमोनात्मदर्शिनाम्।

विभ्रमोक्षीणदोषस्य सर्वावस्थात्मदर्शिन:॥९३॥


विदिताशेषशोपि न जाग्रदपि मुच्यते।

देहात्मदृष्टिज्र्ञातात्मा सुप्तोन्मत्तोपि मुच्यते॥९४॥


यत्रैवाहितधी: पुंस: श्रद्धा तत्रैव जायते।

यत्रैव जायते श्रद्धा चित्तं तत्रैव लीयते॥९५॥


यत्रानाहितधी: पुंस: श्रद्धा तस्मान्निवर्तते।

यस्मान्निवर्तते श्रद्धा कुतश्चित्तस्य तल्लय:॥९६॥


भिन्नात्मानमुपास्यात्मा परो भवति तादृश:।

वर्तिर्दीपं यथोपास्य भिन्ना भवति तादृशी॥९७॥


उपास्यात्मानमेवात्मा जायते परमोथवा।

मथित्वात्मानमात्मैव जायतेग्निर्यथा तरु :॥९८॥


इतीदं भावयेन्नित्यमवाचांगोचरं पदम्।

स्वत एव तदाप्नोति यतो नावर्तते पुन:॥९९॥


अयत्नसाध्यं निर्वाणं चित्तत्त्वं भूतजं यदि।

अन्यथा योगतस्तस्मान्न दु:खं योगिनां क्वचित्॥१००॥


स्वप्ने दृष्टे विनष्टेपि न नाशोस्ति यथात्मन:।

तथा जागरदृष्टेपि विपर्यासाविशेषत:॥१०१॥


अदु:खभावितं ज्ञानं क्षीयते दु:खसन्निधौ।

तस्माद्यथाबलं दु:खैरात्मानं भावयेन्मुनि:॥१०२॥


प्रयत्नादात्मनो वायुरिच्छाद्वेषप्रवर्तितात्।

वायो: शरीरयन्त्राणि वर्तन्ते स्वेषु कर्मसु॥१०३॥


तान्यात्मनि समारोप्य साक्षाण्यास्तेसुखं जड:।

त्यक्त्वारोपं पुनर्विद्वान् प्राप्नोति परमं पदम्॥१०४॥


मुक्त्वा परत्र परबुद्धिमहं धियञ्च,

संसारदु:खजननीं जननाद्विमुक्त:।

ज्योतिर्मयं सुखमुपैति परात्मनिष्ठस्तन्-

मार्गमेतदधिगम्य समाधितन्त्रम्॥१०५॥