रत्नकरण्ड श्रावकाचार

नम: श्रीवद्र्धमानाय निर्धूतकलिलात्मने।

सालोकानां त्रिलोकानां यद्विद्या दर्पणायते॥१॥


देशयामि समीचीनं, धर्मं कर्मनिबर्र्हणम्।

संसारदु:खत: सत्त्वान्, यो धरत्युत्तमे सुखे॥२॥


सद्दृष्टिज्ञानवृत्तानि, धर्मं धर्मेश्वरा विदु:।

यदीयप्रत्यनीकानि, भवन्ति भवपद्धति:॥३॥


श्रद्धानं परमार्थाना-माप्तागम-तपोभृताम् ।

त्रिमूढापोढ- मष्टाङ्गं, सम्यग्दर्शन-मस्मयम्॥४॥


आप्तेनोच्छिन्नदोषेण, सर्वज्ञेनागमेशिना।

भवितव्यं नियोगेन, नान्यथा ह्याप्तता भवेत्॥५॥


क्षुत्पिपासा-जरातङ्क -जन्मान्तक-भयस्मया:।

न रागद्वेषमोहाश्च, यस्याप्त: स प्रकीत्र्यते॥६॥


परमेष्ठी परंज्योतिर्र्विरागो विमल: कृती।

सर्वज्ञोनादिमध्यान्त:, सार्व: शास्तोपलाल्यते॥७॥


अनात्मार्थं विना रागै:, शास्ता शास्ति सतो हितम्।

ध्वनन् शिल्पिकरस्पर्शान्मुरज: किमपेक्षते॥८॥


आप्तोपज्ञमनुल्लङ्घ्य- मदृष्टेष्टविरोधकम्।

तत्त्वोपदेशकृत्सार्वं, शास्त्रं कापथघट्टनम्॥९॥


विषयाशावशातीतो, निरारम्भोपरिग्रह:।

ज्ञानध्यानतपोरक्त स् तपस्वी स प्रशस्यते॥१०॥


इदमेवेदृशमेव, तत्त्वं नान्यन्न चान्यथा।

इत्यकम्पायसाम्भोवत्, सन्मार्गेसंशयारु चि:॥११॥


कर्मपरवशे सान्ते, दु:खैरन्तरितोदये।

पापबीजे सुखेनास्था, श्रद्धानाकाङ्क्षणा स्मृता॥१२॥


स्वभावतोशुचौ काये, रत्नत्रयपवित्रिते।

निर्जुगुप्सा गुणप्रीतिर्मता निर्विचिकित्सिता॥१३॥


कापथे पथि दु:खानां, कापथस्थेप्यसम्मति:।

असम्पृक्ति-रनुत्कीर्ति-रमूढा दृष्टिरुच्यते॥१४॥


स्वयं शुद्धस्य मार्गस्य, बालाशक्तजनाश्रयाम्।

वाच्यतां यत्प्रमार्जन्ति, तद्वदन्त्युपगूहनम्॥१५॥


दर्शनाच्चरणाद्वापि,चलतां धर्मवत्सलै:।

प्रत्यवस्थापनं प्राज्ञै:, स्थितीकरणमुच्यते॥१६॥


स्वयूथ्यान्प्रति सद्भाव-सनाथापेतकैतवा।

प्रतिपत्तिर्यथायोग्यं, वात्सल्यमभिलप्यते॥१७॥


अज्ञानतिमिरव्याप्तिमपाकृत्य यथायथम्।

जिनशासनमाहात्म्यप्रकाश: स्यात्प्रभावना॥१८॥


तावदञ्जनचौरोङ्गे, ततोनन्तमति: स्मृता।

उद्दायनस्तृतीयेपि, तुरीये रेवती मता॥१९॥


ततो जिनेन्द्रभक्तोन्यो, वारिषेणस्तत: पर:।

विष्णुश्च वज्रनामा च, शेषयोर्लक्ष्यतां गतौ॥२०॥


नाङ्गहीनमलं छेत्तुं, दर्शनं जन्मसन्ततिम् ।

न हि मन्त्रोक्षरन्यूनो, निहन्ति विषवेदनाम्॥२१॥


आपगा-सागर-स्नानमुच्चय: सिकताश्मनाम्।

गिरिपातोग्निपातश्च, लोकमूढं निगद्यते ॥२२॥


वरोपलिप्सयाशावान्, रागद्वेषमलीमसा:।

देवता यदुपासीत, देवतामूढमुच्यते ॥२३॥


सग्रन्थारम्भहिंसानां, संसारावर्तवर्तिनाम्।

पाषण्डिनां पुरस्कारो, ज्ञेयं पाषण्डिमोहनम्॥२४॥


ज्ञानं पूजां कुलं जातिं, बलमृद्धिं तपो वपु:।

अष्टावाश्रित्य मानित्वं, स्मयमाहुर्गतस्मया:॥२५॥


स्मयेन योन्यानत्येति, धर्मस्थान् गर्विताशय:।

सोत्येति धर्ममात्मीयं,न धर्मो धार्मिकैर्विना॥२६॥


यदि पापनिरोधोन्यसम्पदा किं प्रयोजनम्।

अथपापास्रवोस्त्यन्यसम्पदा किं प्रयोजनम्॥२७॥


सम्यग्दर्शनसम्पन्नमपि मातङ्गदेहजम्।

देवा देवं विदुर्भस्मगूढाङ्गारान्तरौजसम् ॥२८॥


श्वापि देवोपि देव: श्वा, जायते धर्मकिल्विषात्।

कापि नाम भवेदन्या, सम्पद्धर्माच्छरीरिणाम्॥२९॥


भयाशास्नेहलोभाच्च, कुदेवागमलिङ्गिनाम्।

प्रणामं विनयं चैव, न कुय्र्यु: शुद्धदृष्टय:॥३०॥


दर्शनं ज्ञानचारित्रात्साधिमानमुपाश्नुते ।

दर्शनं कर्णधारं तन्मोक्षमार्गे प्रचक्षते॥३१॥


विद्यावृत्तस्य सम्भूतिस्थितिवृद्धिफलोदया:।

न सन्त्यसति सम्यक्त्वे, बीजाभावे तरोरिव॥३२॥


गृहस्थो मोक्षमार्गस्थो, निर्मोहो नैव मोहवान्।

अनगारो गृही श्रेयान्, निर्मोहो मोहिनो मुने:॥३३॥


न सम्यक्त्वसमं किञिचता्-त्रैकाल्ये त्रिजगत्यपि।

श्रेयोश्रेयश्च मिथ्यात्वसमं नान्यत्तनूभृताम्॥३४॥


सम्यग्दर्शनशुद्धा, नारकतिर्यङ्नपुंसकस्त्रीत्वानि।

दुष्कुल-विकृताल्पायुर्दरिद्रतां च व्रजन्ति नाप्यव्रतिका:॥३५॥


ओजस्तेजो-विद्यावीर्ययशोवृद्धि -विजयविभवसनाथा:।

माहाकुला महार्था, मानवतिलका भवन्ति दर्शनपूता:॥३६॥


अष्टगुणपुषिटतुष्टा, दृषिटविशिष्टा: प्रकृष्टशोभाजुष्टा:।

अमराप्सरसां परिषदि, चिरं रमन्ते जिनेन्द्रभक्ता: स्वर्गे॥३७॥


नवनिधिसप्तद्वय रत्नाधीशा: सर्वभूमिपतयश्चक्रम्।

वर्तयितुं प्रभवन्ति, स्पष्टदृश: क्षत्रमौलिशेखरचरणा:॥३८॥


अमरासुरनरपतिभिर्यमधरपतिभिश्च नूतपादाम्भोजा:।

दृष्ट्या सुनिशिचतार्था, वृषचक्रधरा भवन्ति लोकशरण्या:॥३९॥


शिव-मजर-मरुज-मक्षय-मव्याबाधं विशोकभयशङ्कम्।

काष्ठागतसुखविद्या-विभवं विमलं भजन्ति दर्शनशरणा:॥४०॥


देवेन्द्रचक्रमहिमानममेयमानं, राजेन्द्रचक्रमवनीन्द्रशिरोर्चनीयम्।

धर्मेन्द्रचक्रमधरीकृतसर्वलोकं, लब्ध्वा शिवं च जिनभक्तिरुपैति भव्य:॥४१॥


अन्यूनमनतिरिक्तं , याथातथ्यं विना च विपरीतात्।

नि:संदेहं वेद यदाहुस्तज्ज्ञानमागमिन: ॥४२॥


प्रथमानुयोगमर्थाख्यानं चरितं पुराणमपि पुण्यम्।

बोधिसमाधिनिधानं, बोधति बोध: समीचीन:॥४३॥


लोकालोकविभक्ते र्युगपरिवृत्तेश्चतुर्गतीनां च।

आदर्शमिव तथामति रवैति करणानुयोगं च ॥४४॥


गृहमेध्यनगाराणां, चारित्रोत्पत्तिवृद्धिरक्षाङ्गम्।

चरणानुयोगसमयं, सम्यग्ज्ञानं विजानाति ॥४५॥


जीवाजीवसुतत्त्वे, पुण्यापुण्ये च बन्धमोक्षौ च।

द्रव्यानुयोगदीप:, श्रुतविद्यालोकमातनुते ॥४६॥


मोहतिमिरापहरणे, दर्शनलाभादवाप्तसंज्ञान:।

रागद्वेषनिवृत्त्यै, चरणं प्रतिपद्यते साधु: ॥४७॥


रागद्वेषनिवृत्तेर्हिंसादिनिवत्र्तना कृता भवति।

अनपेक्षितार्थवृत्ति:, क: पुरुष: सेवते नृपतीन्॥४८॥


हिंसानृतचौर्येभ्यो, मैथुनसेवापरिग्रहाभ्यां च।

पापप्रणालिकाभ्यो, विरति: संज्ञस्य चारित्रम्॥४९॥


सकलं विकलं चरणं, तत्सकलं सर्वसङ्गविरतानाम्।

अनगाराणां विकलं, सागाराणां ससङ्गानाम् ॥५०॥


गृहिणां त्रेधा तिष्ठत्यणु-गुण-शिक्षाव्रतात्मकं चरणम्।

पञ्चत्रिचतुर्भेदं त्रयं यथासंख्य-माख्यातम् ॥५१॥


प्राणातिपातवितथव्याहारस्तेयकाममूच्र्छाभ्य: ।

स्थूलेभ्य: पापेभ्यो, व्युपरमणमणुव्रतं भवति॥५२॥


सङ्कल्पात्कृतकारितमननाद्योगत्रयस्य चरसत्त्वान्।

न हिनस्ति यत्तदाहु:, स्थूलवधाद्विरमणं निपुणा:॥५३॥


छेदनबन्धनपीडऩमतिभारारोपणं व्यतीचारा:।

आहारवारणापि च, स्थूलवधाद्व्युपरते: पञ्च॥५४॥


स्थूलमलीकं न वदति, न परान् वादयति सत्यमपि विपदे।

यत्तद्वदन्ति सन्त:, स्थूलमृषावादवैरमणम्॥५५॥


परिवादरहोभ्याख्या, पैशुन्यं कूटलेखकरणं च।

न्यासापहारितापि च, व्यतिक्रमा: पञ्च सत्यस्य ॥५६॥


निहितं वा पतितं वा, सुविस्मृतं वा परस्वमविसृष्टं।

न हरति यन्न च दत्ते, तदकृशचौय्र्यादुपारमणम् ॥५७॥


चौरप्रयोगचौरार्था- दानविलोपसदृशसनिमश्रा:।

हीनाधिकविनिमानं, पञ्चास्तेये व्यतीपाता: ॥५८॥


न तु परदारान् गच्छति, न परान् गमयति च पापभीतेर्यत्।

सा परदारनिवृत्ति:, स्वदारसन्तोषनामापि॥५९॥


अन्यविवाहाकरणानङ्गक्रीड़ा-विटत्व-विपुलतृष:।

इत्वरिकागमनं चास्मरस्य पञ्च व्यतीचारा:॥६०॥


धनधान्यादिग्रन्थं, परिमाय ततोधिकेषु नि:स्पृहता।

परिमितपरिग्रह: स्यादिच्छापरिमाणनामापि॥६१॥


अतिवाहनातिसंग्रह-विस्मयलोभातिभारवहनानि।

परिमितपरिग्रहस्य च, विक्षेपा: पञ्च लक्ष्यन्ते॥६२॥


पञ्चाणुव्रतनिधयो, निरतिक्रमणा: फलन्ति सुरलोकम्।

यत्रावधिरष्टगुणा, दिव्यशरीरं च लभ्यन्ते ॥६३॥


मातङ्गो धनदेवश्च, वारिषेणस्तत: पर:।

नीली जयश्च सम्प्राप्ता:, पूजातिशयमुत्तमम् ॥६४॥


धनश्रीसत्यघोषौ च, तापसारक्षकावपि।

उपाख्येयास्तथा श्मश्रु-, नवनीतो यथाक्रमम्॥६५॥


मद्यमांसमधुत्यागै:, सहाणुव्रतपञ्चकम्।

अष्टौ मूलगुणानाहुर्गृहिणां श्रमणोत्तमा:॥६६॥


दिग्व्रतमनर्थदण्ड, व्रतं च भोगोपभोगपरिमाणम्।

अनुबृंहणाद्गुणाना-, माख्यान्ति गुणव्रतान्यार्या:॥६७॥


दिग्वलयं परिगणितं, कृत्वातोहं बहिर्न यास्यामि।

इति सङ्कल्पो दिग्व्रत-,मामृत्यणुपापविनिवृत्त्यै॥६८॥


मकराकरसरिदटवी, गिरिजनपदयोजनानि मर्यादा:।

प्राहुर्दिशां दशानां, प्रतिसंहारे प्रसिद्धानि॥६९॥


अवधेर्बहिरणुपाप-, प्रतिविरतेर्दिग्व्रतानि धारयताम्।

पञ्चमहाव्रतपरिणति-,मणुव्रतानि प्रपद्यन्ते ॥७०॥


प्रत्याख्यानतनुत्वात्, मन्दतराश्चरणमोहपरिणामा:।

सत्त्वेन दुरवधारा, महाव्रताय प्रकल्प्यन्ते॥७१॥


पञ्चानां पापानां, हिंसादीनां मनोवच:कायै:।

कृतकारितानुमोदैस्त्यागस्तु महाव्रतं महताम् ॥७२॥


ऊध्र्वाधस्तात्तिर्यग्व्यतिपाता: क्षेत्रवृद्धि-रवधीनाम्।

विस्मरणं दिग्िवरतेरत्याशा: पञ्च मन्यन्ते॥७३॥


अभ्यन्तरं दिगवधेरपार्थिकेभ्य: सपापयोगेभ्य:।

विरमणमनर्थदण्ड-, व्रतं विदुव्र्रतधराग्रण्य:॥७४॥


पापोपदेश-हिंसादानापध्यानदु:श्रुती: पञ्च।

प्राहु: प्रमादचर्या-, मनर्थदण्डानदण्डधरा:॥७५॥


तिर्यक्क्लेशवणिज्या-, हिंसारम्भप्रलम्भनादीनाम् ।

प्रसव: कथाप्रसङ्ग: , स्मत्र्तव्य: पाप उपदेश:॥७६॥


परशुकृपाणखनित्र-, ज्वलनायुधशृङ्गिशृंखलादीनाम्।

वधहेतूनां दानं, हिंसादानं ब्रुवन्ति बुधा:॥७७॥


वधबन्धच्छेदादे,द्र्वेषाद्रागाच्च परकलत्रादे:।

आध्यानमपध्यानं, शासति जिनशासने विशदा:॥७८॥


आरम्भसङ्गसाहस-, मिथ्यात्वद्वेषराग-मदमदनै:।

चेत: कलुषयतां श्रुति-, रवधीनां दु:श्रुतिर्भवति॥७९॥


क्षितिसलिलदहनपवना-,रम्भं विफलं वनस्पतिच्छेदम्।

सरणं सारणमपि च, प्रमादचर्यां प्रभाषन्ते॥८०॥


कन्दर्पं कौत्कुच्यं, मौखर्यमतिप्रसाधनं पञ्च।

असमीक्ष्य-चाधिकरणं, व्यतीतयोनर्थदण्डकृद्विरते:॥८१॥


अक्षार्थानां परिसंख्यानं भोगोपभोगपरिमाणम्।

अर्थवतामप्यवधौ, रागरतीनां तनूकृतये॥८२॥


भुक्त्वा परिहातव्यो,भोगो भुक्त्वा पुनश्च भोक्तव्य:।

उपभोगोशनवसनप्रभृति: पाञ्चेन्द्रियो विषय:॥८३॥


त्रसहतिपरिहरणार्थं, क्षौदंर पिशितं प्रमादपरिहृतये।

मद्यं च वर्जनीयं, जिनचरणौ शरणमुपयातै:॥८४॥


अल्पफलबहुविघातान्, मूलक-माद्र्र्राणि शृङ्गवेराणि।

नवनीतनिम्बकुसुमं, कैतक-मित्येव-मवहेयम्॥८५॥


यदनिष्टं तद् व्रतयेद्यच्चानुपसेव्यमेतदपि जह्यात्।

अभिसन्धिकृता विरतिर्विषयाद्योग्याद्व्रतं भवति॥८६॥


नियमो यमश्च विहितौ, द्वेधा भोगोपभोगसंहारात्।

नियम: परिमितकालो, यावज्जीवं यमो ध्रियते॥८७॥


भोजन-वाहन-शयन-स्नान-पवित्राङ्गरागकुसुमेषु ।

ताम्बूल-वसन-भूषण-मन्मथ-सङ्गीतगीतेषु॥८८॥


अद्य दिवा रजनी वा, पक्षो मासस्तथर्तुरयनं वा।

इति कालपरिच्छित्या, प्रत्याख्यानं भवेनिनयम:॥८९॥


विषयविषतोनुपेक्षा, नुस्मृतिरतिलौल्यमतितृषानुभवो।

भोगोपभोगपरिमा, व्यतिक्रमा: पञ्च कथ्यन्ते ॥९०॥


देशावकाशिकं वा, सामयिकं प्रोषधोपवासो वा।

वैयावृत्त्यं शिक्षा, व्रतानि चत्वारि शिष्टानि ॥९१॥


देशावकाशिकं स्यात् कालपरिच्छेदनेन देशस्य।

प्रत्यहमणुव्रतानां, प्रतिसंहारो विशालस्य॥९२॥


गृहहारिग्रामाणां, क्षेत्रनदीदावयोजनानां च।

देशावकाशिकस्य, स्मरन्ति सीम्नां तपोवृद्धा:॥९३॥


संवत्सरमृतुरयनं, मासचतुर्मासपक्षमृक्षं च।

देशावकाशिकस्य, प्राहु: कालावधिं प्राज्ञा:॥९४॥


सीमान्तानां परत:, स्थूलेतरपञ्चपापसन्त्यागात्।

देशावकाशिकेन च, महाव्रतानि प्रसाध्यन्ते॥९५॥


प्रेषणशब्दानयनं, रूपाभिव्यक्तिपुद्गलक्षेपौ।

देशावकाशिकस्य, व्यपदिश्यन्तेत्यया: पञ्च॥९६॥


आसमयमुक्ति-मुक्तं, पञ्चाघाना-मशेषभावेन।

सर्वत्र च सामयिका:, सामयिकं नाम शंसन्ति॥९७॥


मूर्धरुहमुष्टिवासो, बन्धं पय्र्यङ्कबन्धनं चापि।

स्थानमुपवेशनं वा, समयं जानन्ति समयज्ञा:॥९८॥


एकान्ते सामयिकं, निव्र्याक्षेपे वनेषु वास्तुषु च।

चैत्यालयेषु वापि च, परिचेतव्यं प्रसन्नधिया॥९९॥


व्यापार-वैमनस्याद्वि, निवृत्त्यामन्तरात्म -विनिवृत्त्या।

सामयिकं बध्नीया-, दुपवासे चैकभुक्ते वा ॥१००॥


सामयिकं प्रतिदिवसं, यथावदप्यनलसेन चेतव्यम्।

व्रतपञ्चक-परिपूरण,- कारणमवधानयुक्तेन॥१०१॥


सामयिके सारम्भा:, परिग्रहा नैव सन्ति सर्वेपि।

चेलोपसृष्टमुनिरिव, गृही तदा याति यतिभावम्॥१०२॥


शीतोष्णदंशमशकपरीषहमुपसर्गमपि च मौनधरा:।

सामयिकं प्रतिपन्ना, अधिकुर्वीरन्नचलयोगा:॥१०३॥


अशरण-मशुभ-मनित्यं,दु:ख-मनात्मानमावसामि भवम्।

मोक्षस्तद्विपरीतात्मेति ध्यायन्तु सामयिके॥१०४॥


वाक्कायमानसानां, दु:प्रणिधानान्यनादरास्मरणे।

सामयिकस्यातिगमा, व्यज्यन्ते पञ्च भावेन ॥१०५॥


पर्वण्यष्टम्यां च, ज्ञातव्य: प्रोषधोपवासस्तु ।

चतुरभ्यवहाय्र्याणां, प्रत्याख्यानं सदेच्छाभि: ॥१०६॥


पञ्चानां पापाना-, मलंक्रियारम्भगन्धपुष्पाणाम्।

स्नानाञ्जननस्याना-मुपवासे परिहृतिं कुय्र्यात् ॥१०७॥


धर्मामृतं सतृष्ण:, श्रवणाभ्यां पिबतु पाययेद्वान्यान्।

ज्ञानध्यानपरो वा, भवतूपवसन्नतन्द्रालु: ॥१०८॥


चतुराहारविसर्जन-, मुपवास: प्रोषध: सकृद्भुक्ति:।

स प्रोषधोपवासो, यदुपोष्यारम्भमाचरति॥१०९॥


ग्रहणविसर्गास्तरणान्यदृष्टमृष्टान्यनादरास्मरणे ।

यत्प्रोषधोपवास-, व्यतिलङ्घनपञ्चकं तदिदम् ॥११०॥


दानं वैयावृत्यं, धर्माय तपोधनाय गुणनिधये।

अनपेक्षितोपचारो-, पक्रियमगृहाय विभवेन॥१११॥


व्यापत्तिव्यपनोद:, पदयो: संवाहनं च गुणरागात्।

वैयावृत्यं यावानुपग्रहोन्योपि संयमिनाम् ॥११२॥


नवपुण्यै: प्रतिपत्ति: सप्तगुणसमाहितेन शुद्धेन।

अपसूनारम्भाणा,-मार्याणामिष्यते दानम् ॥११३॥


गृहकर्मणापि निचितं, कर्म विमाषिर्ट खलु गृहविमुक्तानाम्।

अतिथीनां प्रतिपूजा, रुधिरमलं धावते वारि॥११४॥


उच्चैर्गोत्रं प्रणते,र्भोगो दानादुपासनात्पूजा।

भक्ते: सुन्दररूपं स्तवनात्कीर्तिस्तपोनिधिषु॥११५॥


क्षितिगतमिव वटबीजं, पात्रगतं दानमल्पमपि काले।

फलतिच्छायाविभवं, बहुफलमिष्टं शरीरभृताम्॥११६॥


आहारौषधयोरप्युपकरणावासयोश्च दानेन।

वैयावृत्यं ब्रुवते, चतुरात्मत्वेन चतुरस्रा: ॥११७॥


श्रीषेणवृषभसेने, कौण्डेश: सूकरश्च दृष्टान्ता:।

वैयावृत्यस्यैते, चतुर्विकल्पस्य मन्तव्या: ॥११८॥


देवाधिदेवचरणे, परिचरणं सर्वदु:खनिर्हरणम्।

कामदुहि कामदाहिनि, परिचिनुयादादृतो नित्यम् ॥११९॥


अर्हच्चरणसपर्या, महानुभावं महात्मनामवदत्।

भेक: प्रमोदमत्त:, कुसुमेनैकेन राजगृहे॥१२०॥


हरितपिधाननिधाने, ह्यनादरास्मरणमत्सरत्वानि।

वैयावृत्यस्यैते, व्यतिक्रमा: पञ्च कथ्यन्ते॥१२१॥


उपसर्गे दुर्भिक्षे, जरसि रुजायां च नि:प्रतीकारे।

धर्माय तनुविमोचनमाहु: सल्लेखनामार्या: ॥१२२॥


अन्त:क्रियाधिकरणं, तप:फलं सकलदर्शिन: स्तुवते।

तस्माद्यावद्विभवं, समाधिमरणे प्रयतितव्यम्॥१२३॥


स्नेहं वैरं सङ्गं, परिग्रहं चापहाय शुद्धमना:।

स्वजनं परिजनमपि च, क्षान्त्वा क्षमयेत्प्रियैर्वचनै:॥१२४॥


आलोच्य सर्वमेन:, कृतकारित-मनुमतं च निव्र्याजम्।

आरोपयेन्महाव्रत, -मामरणस्थायि नि:शेषम्॥१२५॥


शोकं भयमवसादं, क्लेदं कालुष्यमरतिमपि हित्वा।

सत्त्वोत्साहमुदीर्य च, मन: प्रसाद्यं श्रुतैरमृतै:॥१२६॥


आहारं परिहाप्य, क्रमश: स्निग्धं विवद्र्धयेत्पानम्।

स्निग्धं च हापयित्वा, खरपानं पूरयेत्क्रमश:॥१२७॥


खरपानहापनामपि, कृत्वा कृत्वोपवासमपि शक्त्या।

पञ्चनमस्कारमनास्तनुं, त्यजेत्सर्वयत्नेन॥१२८॥


जीवितमरणाशंसे , भयमित्रस्मृति-निदाननामान:।

सल्लेखनातिचारा:, पञ्च जिनेन्द्रै: समादिष्टा:॥१२९॥


नि:श्रेयस-मभ्युदयं, निस्तीरं दुस्तरं सुखाम्बुनिधिम्।

नि:पिबति पीतधर्मा, सर्वैर्दु:खै-रनालीढ:॥१३०॥


जन्म-जरा-मय-मरणै:,शोकै-र्दु:खै-र्भयैश्च परिमुक्तम्।

निर्वाणं शुद्धसुखं नि:श्रेयस-मिष्यते नित्यम्॥१३१॥


विद्यादर्शनशक्ति -, स्वास्थ्यप्रह्लादतृप्तिशुद्धियुज:।

निरतिशया निरवधयो, नि:श्रेयसमावसन्ति सुखम्॥१३२॥


काले कल्पशतेपि च, गते शिवानां न विक्रिया लक्ष्या।

उत्पातोपि यदि स्यात्,त्रिलोकसंभ्रान्तिकरणपटु:॥१३३॥


नि:श्रेयस-मधिपन्नास्,त्रैलोक्यशिखा-मणिश्रियं दधते।

निष्किट्टिकालिकाच्छवि,-चामीकरभासुरात्मान:॥१३४॥


पूजार्थाज्ञैश्वर्यै, र्बल-परिजनकामभोगभूयिष्ठै:।

अतिशयित-भुवन-मद्भुत,-मभ्युदयं फलति सद्धर्म:॥१३५॥


श्रावकपदानि देवै-,रेकादश देशितानि येषु खलु।

स्वगुणा: पूर्वगुणै: सह, संतिष्ठन्ते क्रमविवृद्धा:॥१३६॥


सम्यग्दर्शनशुद्ध:, संसारशरीरभोगनिर्विण्ण:।

पञ्चगुरुचरणशरणो, दार्शनिकस्तत्त्वपथगृह्य:॥१३७॥


निरतिक्रमण-मणुव्रत-, पञ्चकमपि शीलसप्तकं चापि।

धारयते नि:शल्यो, योसौ व्रतिनां मतो व्रतिक:॥१३८॥


चतुरावत्र्तत्रितयश्,चतु:प्रणाम: स्थितो यथाजात:।

सामयिको द्विनिषद्यसित्र-, योगशुद्धसित्रसन्ध्यमभिवन्दी॥१३९॥


पर्वदिनेषु चतुष्र्वपि, मासे मासे स्वशक्तिमनिगुह्य।

प्रोषधनियमविधायी, प्रणधिपर: प्रोषधानशन:॥१४०॥


मूलफलशाकशाखा,करीरकन्दप्रसूनबीजानि ।

नामानि योत्ति सोयं, सचित्तविरतो दयामूर्ति:॥१४१॥


अन्नं पानं खाद्यं, लेह्यं नाश्नाति यो विभावर्याम्।

स च रात्रिभुक्तिविरत:, सत्त्वेष्वनुकम्पमानमना:॥१४२॥


मलबीजं मलयोनिं, गलन्मलं पूतिगन्धि बीभत्सम्।

पश्यन्नङ्गमनङ्गाद्वि-, रमति यो ब्रह्मचारी स:॥१४३॥


सेवाकृषिवाणिज्य-, प्रमुखादारम्भतो व्युपारमति।

प्राणातिपातहेतो, र्योसावारम्भविनिवृत्त:॥१४४॥


बाह्येषु दशसु वस्तुषु, ममत्वमुत्सृज्य निर्ममत्वरत:।

स्वस्थ: सन्तोषपर: परिचितपरिग्रहाद्विरत:॥१४५॥


अनुमतिरारम्भे वा, परिग्रहे ऐहिकेषु कर्मसु वा।

नास्ति खलु यस्य समधी,-रनुमतिविरत: स मन्तव्य:॥१४६॥


गृहतो मुनिवनमित्वा, गुरूपकण्ठे व्रतानि परिगृह्य।

भैक्ष्याशनस्तपस्यना्, नुत्कृष्टश्चेलखण्डधर:॥१४७॥


पाप-मरातिर्धर्मो, बन्धुर्जीवस्य चेति निशिचन्वन्।

समयं यदि जानीते, श्रेयो ज्ञाता ध्रुवं भवति॥१४८॥


येन स्वयं वीतकलङ्कविद्या, दृषिटक्रियारत्नकरण्डभावम्।

नीतस्तमायाति पतीच्छयेव, सर्वार्थसिद्धिसित्रषु विष्टपेषु॥१४९॥


सुखयतु सुखभूमि:, कामिनं कामिनीव,

सुतमिव जननी मां, शुद्धशीला भुनक्तु।

कुलमिव गुणभूषा, कन्यका संपुनीता-

जिजनपतिपदपद्म, प्रेक्षिणी दृषिटलक्ष्मी:॥१५०॥