यस्य स्वयं स्वाभावाप्ति, रभावे कृत्स्नकर्मण:।
तस्मै संज्ञान-रूपाय नमोस्तु परमात्मने ॥१॥
योग्योपादानयोगेन, दृषद: स्वर्णता मता।
द्रव्यादिस्वादिसंपत्तावात्मनोप्यात्मता मता॥२॥
वरं व्रतै: पदं दैवं, नाव्रतैर्वत नारकम्।
छायातपस्थयो र्भेद: प्रतिपालयतोर्महान् ॥३॥
यत्र भाव: शिवं दत्ते, द्यौ: कियद्दूरवर्तिनी।
यो नयत्याशु गव्यूतिं क्रोशार्धे किं स सीदति ?॥४॥
हृषीकज -मनातङ्कं दीर्घ - कालोपलालितम्
नाके नाकौकसां सौख्यं, नाके नाकौकसामिव॥५॥
वासनामात्र-मेवैतत् सुखं दु:खं च देहिनाम्।
तथा ह्युद्वेजयन्त्येते, भोगा रोगा इवापदि॥६॥
मोहेन संवृतं ज्ञानं, स्वभावं लभते न हि।
मत्त: पुमान् पदार्थानां यथा मदन-कोद्रवै:॥७॥
वपुर्गृहं धनं दारा:, पुत्रा मित्राणि शत्रव:।
सर्वथान्यस्वभावानि, मूढ: स्वानि प्रपद्यते॥८॥
दिग्देशेभ्य: खगा एत्य, संवसन्ति नगे नगे।
स्वस्वकार्यवशाद्यान्ति, देशे दिक्षु प्रगे प्रगे॥९॥
विराधक: कथं हन्त्रे जनाय परिकुप्यति।
त्र्यड्.गुलं पातयन् पद्भ्यां स्वयं दण्डेन पात्यते॥१०॥
रागद्वेषद्वयीदीर्घ - नेत्राकर्षण- कर्मणा।
अज्ञानात्सुचिरं जीव:, संसाराब्धौ भ्रमत्यसौ ॥११॥
विपद्भवपदावर्ते पदिकेवातिवाह्यते।
यावत्तावद्भवन्त्यन्या: प्रचुरा विपद: पुर: ॥१२॥
दुरज्र्येनासुरक्ष्येण, नश्वरेण धनादिना।
स्वस्थंमन्यो जन: कोपि, ज्वरवानिव सर्पिषा॥१३॥
विपत्तिमात्मनो मूढ:, परेषामिव नेक्षते।
दह्यमान-मृगाकीर्णवनान्तर - तरुस्थवत्॥१४॥
आयुर्वृद्धिक्षयोत्कर्ष-, हेतुं कालस्य निर्गमम्।
वाञ्छतां धनिनामिष्टं, जीवितात्सुतरां धनम् ॥१५॥
त्यागाय श्रेयसे वित्तमवित्त: सञ्चिनोति य:।
स्वशरीरं स पङ्केन, स्नास्यामीति विलिम्पति॥१६॥
आरम्भे तापकान् प्राप्तावतृप्तिप्रतिपादकान् ।
अन्ते सुदुस्त्यजान् कामान् कामं क: सेवते सुधी:॥१७॥
भवन्ति प्राप्य यत्सङ्गमशुचीनि शुचीन्यपि।
स काय: सन्ततापायस्तदर्थं प्रार्थना वृथा ॥१८॥
यज्जीवस्योपकाराय, तद्देहस्यापकारकम्।
यद्देहस्योपकाराय, तज्जीवस्यापकारकम् ॥१९॥
इतश्चिन्तामणिर्दिव्य इत: पिण्याकखण्डकम् ।
ध्यानेन चेदुभे लभ्ये क्वाद्रियन्तां विवेकिन:॥२०॥
स्वसंवेदन सुव्यक्तस्तनुमात्रो निरत्यय:।
अत्यन्तसौख्यवानात्मा, लोकालोकविलोकन:॥२१॥
संयम्य करणग्राममेकाग्रत्वेन चेतस:।
आत्मानमात्मवान् ध्यायेदात्मनैवात्मनि स्थितम्॥२२॥
अज्ञानोपास्तिरज्ञानं, ज्ञानं ज्ञानिसमाश्रय:।
ददाति यत्तु यस्यास्ति, सुप्रसिद्धमिदं वच:॥२३॥
परीषहाद्यविज्ञानादास्रवस्य निरोधिनी।
जायतेध्यात्मयोगेन, कर्मणामाशु निर्जरा॥२४॥
कटस्य कत्र्ताहमिति, सम्बन्ध: स्याद् द्वयोद्र्वयो:।
ध्यानं ध्येयं यदात्मैव, सम्बन्ध: कीदृशस्तदा॥२५॥
बध्यते मुच्यते जीव:, सममो निर्मम: क्रमात् ।
तस्मात्सर्वप्रयत्नेन, निर्ममत्वं विचिन्तयेत्॥ २६॥
एकोहं निर्मम: शुद्धो, ज्ञानी योगीन्द्रगोचर:।
बाह्या: संयोगजा भावा, मत्त: सर्वेपि सर्वथा॥२७॥
दु:खसंदोहभागित्वं, संयोगादिह देहिनाम्।
त्यजाम्येनं तत: सर्वं, मनोवाक्कायकर्मभि:॥२८॥
न मे मृत्यु: कुतो भीतिर्न मे व्याधि: कुतो व्यथा।
नाहं बालो न वृद्धोहं, न युवैतानि पुद्गले॥२९॥
भुक्तोज्झिता मुहुर्मोहान्मया सर्वेपि पुद्गला:।
उच्छिष्टेष्विव तेष्वद्य, मम विज्ञस्य का स्पृहा॥३०॥
कर्म कर्म हिताबन्धि, जीवो जीवहितस्पृह:।
स्वस्वप्रभावभूयस्त्वे, स्वार्थं को वा न वाञ्छति॥३१॥
परोपकृतिमुत्सृज्य, स्वोपकारपरो भव।
उपकुर्वन्परस्याज्ञो, दृश्यमानस्य लोकवत् ॥३२॥
गुरूपदेशादभ्यासात्संवित्ते: स्वपरान्तरम्।
जानाति य: स जानाति, मोक्षसौख्यं निरन्तरम्॥३३॥
स्वस्मिन् सदभिलाषित्वादभीष्टज्ञापकत्वत:।
स्वयं हितप्रयोक्तृत्वादात्मैव गुरुरात्मन:॥३४॥
नाज्ञो विज्ञत्वमायाति, विज्ञो नाज्ञत्वमृच्छति।
निमित्तमात्र-मन्यस्तु, गतेर्धर्मास्तिकायवत्॥३५॥
अभवच्चित्तविक्षेप, एकान्ते तत्त्वसंस्थित:।
अभ्यस्येदभियोगेन, योगी तत्त्वं निजात्मन:॥३६॥
यथा यथा समायाति, संवित्तौ तत्त्वमुत्तमम्।
तथा तथा न रोचन्ते, विषया: सुलभा अपि॥३७॥
यथा यथा न रोचन्ते, विषया: सुलभा अपि।
तथा तथा समायाति, संवित्तौ तत्त्वमुत्तमम्॥३८॥
निशामयति निश्शेषमिन्द्रजालोपमं जगत्।
स्पृहयत्यात्मलाभाय, गत्वान्यत्रानुतप्यते॥३९॥
इच्छत्येकान्तसंवासं निर्जनं जनितादर:।
निज कार्यवशात्किञ्चिदुक्त्वा विस्मरति द्रुतम्॥४०॥
ब्रुवन्नपि हि न ब्रूते गच्छन्नपि न गच्छति।
स्थिरीकृतात्मतत्त्वस्तु, पश्यन्नपि न पश्यति॥४१॥
किमिदं कीदृशं कस्य, कस्मात्क्वेत्यविशेषयन्।
स्वदेहमपि नावैति योगी योगपरायण:॥४२॥
यो यत्र निवसन्नास्ते, स तत्र कुरुते रतिम्।
यो यत्र रमते तस्मादन्यत्र स न गच्छति॥४३॥
अगच्छंस्तद्विशेषाणामनभिज्ञश्च जायते।
अज्ञाततद्विशेषस्तु, बध्यते न विमुच्यते॥४४॥
पर: परस्ततो दु:खमात्मैवात्मा तत: सुखम्।
अत एव महात्मानस्तन्निमित्तं कृतोद्यमा:॥४५॥
अविद्वान् पुद्गलद्रव्यं योभिनन्दति तस्य तत्।
न जातु जन्तो: सामीप्यं,चतुर्गतिषु मुञ्चति॥४६॥
आत्मानुष्ठाननिष्ठस्य, व्यवहारबहि: स्थिते:।
जायते परमानन्द: कश्चिद्योगेन योगिन:॥४७॥
आनन्दो निर्दहत्युद्धं कर्मेन्धनमनारतम्।
न चासौ खिद्यते योगी, बहिर्दु:खेष्वचेतन:॥४८॥
अविद्याभिदुरं ज्योति:, परं ज्ञानमयं महत्।
तत्प्रष्टव्यं तदेष्टव्यं, तद्द्रष्टव्यं मुमुक्षुभि:॥४९॥
जीवोन्य: पुद्गलश्चान्य इत्यसौ तत्त्वसंग्रह:।
यदन्यदुच्यते किञ्चित्सोस्तु तस्यैव विस्तर:॥५०॥
इष्टोपदेशमिति सम्यगधीत्य धीमान्,
मानापमानसमतां स्वमताद्वितन्य।
मुक्ताग्रहो विनिवसन् सजने वने वा,
मुक्तिश्रियं निरुपमामुपयाति भव्य:॥५१॥