ईर्यापथ प्रतिक्रमण भक्ति

नि:सङ्गोहं जिनानां सदनमनुपमं त्रि:परीत्येत्य भक्त्या,

स्थित्वा गत्वा निषद्योच्चरण-परिणतोन्त: शनैर्हस्तयुग्मम्।

भाले संस्थाप्य बुद्ध्या मम दुरित-हरं कीर्तये शक्रवन्द्यं,

निन्दादूरं सदाप्तं क्षयरहितममुं ज्ञानभानुं जिनेन्द्रम्॥१॥


श्रीमत्पवित्रमकलङ्कमनन्तकल्पं ,

स्वायंभुवं सकलमङ्गलमादितीर्थम्।

नित्योत्सवं मणिमयं निलयं जिनानां,

त्रैलोक्यभूषणमहं शरणं प्रपद्ये॥२॥


श्रीमत्परमगम्भीर, स्याद्वादामोघलांछनम्।

जीयात् त्रैलोक्यनाथस्य शासनं जिनशासनम्॥३॥


श्री-मुखालोकनादेव, श्रीमुखालोकनं भवेत्।

आलोकनविहीनस्य, तत् सुखावाप्तय: कुत:?॥४॥


अद्याभवत्सफलता नयनद्वयस्य,

देव! त्वदीयचरणाम्बुजवीक्षणेन।

अद्य त्रिलोकतिलक! प्रतिभासते मे,

संसारवारिधिरयं चुलुकप्रमाण:॥५॥


अद्य मे क्षालितं गात्रं नेत्रे च विमलीकृते ।

स्नातोहं धर्मतीर्थेषु जिनेन्द्र! तव दर्शनात्॥६॥


नमो नम: सत्त्वहितंकराय, वीराय भव्याम्बुजभास्कराय।

अनन्तलोकाय सुरार्चिताय, देवाधिदेवाय नमो जिनाय॥७॥


नमो जिनाय त्रिदशार्चिताय, विनष्टदोषाय गुणार्णवाय।

विमुक्तिमार्गप्रतिबोधनाय,देवाधिदेवाय नमो जिनाय॥८॥


देवाधिदेव ! परमेश्वर ! वीतराग !

सर्वज्ञ! तीर्थकर! सिद्ध महानुभाव।

त्रैलोक्यनाथ जिनपुंगव ! वर्धमान!

स्वामिन्! गतोस्मि शरणं चरणद्वयं ते॥९॥


जितमदहर्षद्वेषा, जितमोहापरिषहा जितकषाया: ।

जितजन्ममरणरोगा, जितमात्सर्या जयन्तु जिना:॥१०॥


जयतु जिन वर्धमानस् त्रिभुवन-हित धर्मचक्रनीरजबन्धु:।

त्रिदशपतिमुकुटभासुर, चूडामणिरश्मिरञ्जितारुणचरण:॥११॥


जय जय जय त्रैलोक्यकाण्डशोभिशिखामणे,

नुद नुद नुद स्वान्तध्वान्तं जगत्कमलार्क न:।

नय नय नय स्वामिन्! शान्तिं नितान्तमनन्तिमां,

न हि न हि न हि त्राता लोकैकमित्रभवत्पर:॥१२॥


चित्ते सुखे शिरसि पाणिपयोजयुग्मे,

भक्तिं स्तुतिं विनतिमञ्जलिमञ्जसैव ।

चेक्रीयते चरिकरीति चरीकरीति,

यश्चर्करीति तव देव ! स एव धन्य:॥१३॥


जन्मोन्माज्र्यं भजतु भवत: पादपद्मं न लभ्यम्,

तच्चेत् स्वैरं चरतु न च दुर्देवतां सेवतां स:।

अश्नात्यन्नं यदिह सुलभं दुर्लभं चेन्मुधास्ते,

क्षुद्व्यावृत्यै कवलयति क:कालकूटं बुभुक्षु:॥१४॥


रूपं ते निरुपाधि-सुन्दर-मिदं पश्यन् सहस्रेक्षण:,

प्रेक्षाकौतुककारिकोत्र भगवन् नोपैत्यवस्थान्तरम्।

वाणीं गद्गद्यन् वपु: पुलकयन् नेत्रद्वयं स्रावयन्,

मूद्र्धानं नमयन् करौ मुकुलयंश्चेतोपि निर्वापयन्॥१५॥


त्रस्तारातिरिति त्रिकालविदिति त्राता त्रिलोक्या इति,

य: सूतिरिति श्रियां निधिरिति: सुराणामिति।

प्राप्तोहं शरणं शरण्यमगतिस्त्वां तत्-त्यजोपेक्षणम्,

रक्ष क्षेमपदं प्रसीद जिन! किं विज्ञार्पितै-र्गोपितै: ॥१६॥


त्रिलोक-राजेन्द्रकिरीटकोटि-प्रभाभिरालीढपदारविन्दम्।

निर्मूलमुन्मूलितकर्मवृक्षं,जिनेन्द्रचन्द्रं प्रणमामि भक्त्या॥१७॥


करचरणतनुविघाता, दटतो निहित: प्रमादत: प्राणी।

ईर्यापथमिति भीत्या मुञ्चे तद्दोषहान्यर्थम्॥१८॥


ईर्यापथे प्रचलताद्य मया प्रमादा-

देकेन्द्रियप्रमुखजीवनिकायबाधा ।

निर्वर्तिता यदि भवेदयुगान्तरेक्षा,

मिथ्या तदस्तु दुरितं गुरुभक्तितो मे॥१९॥


पडिक्कमामि भंते ! इरियावहियाए, विराहणाए, अणागुत्ते, अइग्गमणे, णिग्गमणे, ठाणे, गमणे, चंकमणे, पाणुग्गमणे, बीजुग्गमणे, हरिदुग्गमणे, उच्चारपस्सवण-खेल-सिंहाण-वियडि-पइावणियाए, जे जीवा एइंदिया वा, वेइंदिया वा, तेइंदिया वा, चउरिंदिया वा, पंचिंदिया वा, णोल्लिदा वा, पेल्लिदा वा, संघट्टिदा वा, संघादिदा वा, उद्दाविदा वा, परि-दाविदा वा, किरिच्छिदा वा, लेस्सिदा वा, छिंदिदा वा, भिंदिदा वा, ठाणदो वा, ठाण-चंकमणदो वा, तस्स उत्तरगुणं, तस्स पायच्छित्त-करणं तस्स विसोहिकरणं, जाव अरहंताणं, भयवंताणं, णमोक्कारं पज्जुवासं करेमि, ताव कालं, पावकम्मं दुच्चरियं वोस्सरामि।


णमो अरहंताणं णमो सिद्धाणं, णमो आयरियाणं।

णमो उवज्झायाणं णमो लोए सव्वसाहूणं॥३॥

जाप्यानि। (९ बार )

नमो परमात्मने नमोनेकान्ताय शान्तये।


इच्छामि भंते ! आलोचेउं इरियावहियस्स पुव्वुत्तरदक्खिण-पच्छिमचउदिसु विदिसासु विहरमाणेण जुगंतर दििणा, भव्वेण दव्वा। पमाददोसेण डवडवचरियाए पाण-भूद-जीवसताणं उवघादो कदो वा कारिदो वा कीरंतो वा समणुमण्णिदो तस्स मिच्छा मे दुक्कडं।


पापिष्ठेन दुरात्मना जड्धिया, मायाविना लोभिना,

रागद्वेष-मलीमसेन मनसा, दुष्कर्म यन्निर्मितम्।

त्रैलोक्याधिपते! जिनेन्द्र ! भवता श्रीपादमूलेधुना,

निन्दापूर्वमहं जहामि सततं निर्वर्तये कर्मणाम्॥१॥


जिनेन्द्रमुन्मूलितकर्मबन्धं, प्रणम्य सन्मार्गकृतस्वरूपम्।

अनन्तबोधादि भवं गुणौघं क्रियाकलापं प्रकटं प्रवक्ष्ये॥२॥


अथार्हत्पूजारम्भक्रियायां पूर्वाचार्यानुक्रमेण सकलकर्म-क्षयार्थं भावपूजास्तववन्दनासमेतंश्रीमत्सिद्धभत्ति कायोत्सर्गं करोम्यहम्।


णमो अरहंताणं णमो सिद्धाणं णमो आइरियाणं।

णमो उवज्झायाणं णमो लोए सव्वसाहूणं॥


चत्तारि मंगलं - अरहंता मंगलं, सिद्धा मंगलं, साहु मंगलं, केवलिपण्णत्तो धम्मो मंगलं। चत्तारि लोगुत्तमा - अरहंता लोगुत्तमा, सिद्धा लोगुत्तमा साहु लोगुत्तमा, केवलिपण्णत्तो धम्मो लोगुत्तमो। चत्तारि सरणं पव्वज्जामि - अरहंते सरणं पव्वज्जामि, सिद्धे सरणं पव्वज्जामि, साहु सरणं पव्वज्जामि, केवलिपण्णत्तं धम्मं सरणं पव्वज्जामि।


अड्ढाइज्ज-दीव-दो समुद्देसु पण्णारस-कम्म-भूमिसु, जाव-अरहंताणं, भयवंताणं आदियराणं, तित्थयराणं, जिणाणं, जिणोत्तमाणं, केवलियाणं, सिद्धाणं, बुद्धाणं, परिणिव्वुदाणं, अंतयडाणं पारयडाणं, धम्माइरियाणं, धम्मदेसयाणं, धम्मणायगाणं, धम्म-वर-चाउरंग-चक्क-वट्टीणं, देवाहि-देवाणं, णाणाणं दंसणाणं, चरित्ताणं सदा करेमि किरियम्मं। करेमि भंते! सामायियं सव्वसावज्ज-जोगं पच्चक्खामि जावज्जीवं तिविहेण मणसा वचसा काएण, ण करेमि ण कारेमि, ण अण्णं करंतं पि समणुमणामि तस्स भंते ! अइचारं पडिक्कमामि, णिंदामि, गरहामि अप्पाणं, जाव अरहंंताणं भयवंताणं, पज्जुवासं करेमि तावकालं पावकम्मं दुच्चरियं वोस्सरामि।


॥ नौ बार णमोकार मंत्र का जाप करें॥


चौबीस तीर्थङ्करों की स्तुति

थोस्सामि हं जिणवरे, तित्थयरे केवली अणंतजिणे।

णरपवरलोयमहिए, विहुय-रयमले महप्पण्णे॥१॥


लोयस्सुज्जोय-यरे, धम्मं तित्थंकरे जिणे वंदे।

अरहंते कित्तिस्से, चउवीसं चेव केवलिणो॥२॥


उसह-मजियं च वंदे, संभव-मभिणंदणं च सुमइं च।

पउमप्पहं सुपासं, जिणं च चंदप्पहं वंदे॥३॥


सुविहिं च पुप्फयंतं, सीयल सेयं च वासुपुज्जं च।

विमल-मणंतं भयवं, धम्मं संतिं च वंदामि॥४॥


कुंथुं च जिणवरिंदं, अरं च मल्लिं च सुव्वयं च णमिं।

वंदामि रिट्ठ-णेमिं, तह पासं वड्ढमाणं च॥५॥


एवं मए अभित्थुआ, विहुयरयमलापहीण-जरमरणा।

चउवीसं पि जिणवरा, तित्थयरा मे पसीयंतु॥६॥


कित्तिय वंदिय महिया, एदे लोगोत्तमा जिणा सिद्धा।

आरोग्ग-णाण-लाहं, दिंतु समाहिं च मे बोहिं॥७॥


चंदेहिं णिम्मल-यरा, आइच्चेहिं अहिय-पयासंता।

सायर-मिव गंभीरा, सिद्धा सिद्धिं मम दिसंतु॥८॥