प्रश्नोत्तर रत्नमालिका

प्रणिपत्य वद्र्धमानं प्रश्नोत्तर-रत्नमालिकां वक्ष्ये।

नागनरामरवन्द्यं देवं देवाधिपं वीरम् ॥१॥


क: खलु नालंक्रियते दृष्टादृष्टार्थ-साधनपटीयान्।

कण्ठस्थितया विमल-प्रश्नोत्तर-रत्नमालिकया॥२॥


भगवन् कि मुपादेयं गुरुवचनं हेयमपि च किमकार्यम्।

को गुरुरधिगततत्त्व: सत्त्वहिताभ्युद्यत: सततम्॥३॥


त्वरितं किं कत्र्तव्यं विदुषा संसार-सन्ततिच्छेद:।

किं मोक्षतरोर्बीजं सम्यग्ज्ञानं क्रियासहितम् ॥४॥


किं पथ्यदनं धर्म: क: शुचिरिह यस्य मानसं शुद्धम्।

क: पण्डितो विवेकी किं विषमवधीरिता गुरव:॥५॥


किं संसारे सारं बहुशोपि विचिन्त्यमानमिदमेव।

मनुजेषु दृष्टतत्त्वं स्वपरहितायोद्यतं जन्म॥६॥


मदिरेव मोहजनक: क: स्नेह: के च दस्यवो विषया:।

का भव वल्ली तृष्णा को वैरी नन्वनुद्योग:॥७॥


कस्माद्भयमिह मरणादन्धादपि को विशिष्यते रागी।

क: शूरो यो ललनालोचनवाणै र्न च व्यथित: ॥८॥


पातुं कर्णाञ्जलिभि: किममृतमिव बुध्यते सदुपदेश:।

किं गुरुताया मूलं यदेतदप्रार्थनं नाम ॥९॥


किं गहनं स्त्रीचरितं कश्चतुरो यो न खण्डितस्तेन।

किं दारिद्र्यमसंतोष एवं किं लाघवं याञ्चा ॥१०॥


किं जीवितमनवद्यं किं जाड्यं पाटवेप्यनभ्यास:।

को जागर्ति विवेकी का निद्रा मूढता जन्तो:॥११॥


नलिनीदलगतजललव-तरलं किं यौवनं धनमथायु:।

के शशधरकरनिकरा-नुकारिण: सज्जना एव॥१२॥


को नरक: परवशता किं सौख्यं सर्वसंगविरतिर्या।

किं सत्यं भूतहितं किं प्रेय: प्राणिनामसव:॥१३॥


किं दानमनाकाङ्क्षं किं मित्रं यन्निवर्तयति पापात्।

कोलंकार: शीलं, किं वाचां मण्डनं ! सत्यम्॥१४॥


किमनर्थफलं मानसमसंगतं का सुखावहा मैत्री।

सर्वव्यसनविनाशे को दक्ष: सर्वथा त्याग:॥१५॥


कोन्धो योकार्यरत: को बधिरो य: शृणोति न हितानि।

को मूको य: काले प्रियाणि वक्तुं न जानाति॥१६॥


किं मरणं मूर्खत्वं किं चानघ्र्यं यदवसरे दत्तम्।

आमरणात्किं शल्यं प्रच्छन्नं यत्कृतमकार्यम्॥१७॥


कुत्र विधेयो यत्नो विद्याभ्यासे सदौषधे दाने।

अवधीरणा क्व कार्या खल परयोषित्परधनेषु॥१८॥


काहर्निशमनुचिन्त्या संसारासारता न च प्रमदा।

का प्रेयसी विधेया करुणादाक्षिण्यमपि मैत्री॥१९॥


कण्ठगतैरप्यसुभि: कस्यात्मा नो समप्र्यते जातु।

मूर्खस्य विषादस्य च गर्वस्य तथा कृतघ्नस्य॥२०॥


क: पूज्य: सद्वृत्त: कमधनमाचक्षते चलितवृत्तम्।

केन जितं जगमेतत् सत्यतितिक्षावता पुंसा॥२१॥


कस्मै नम: सुरैरपि सुतरां क्रियते दयाप्रधानाय।

कस्मादुद्विजितव्यं संसारारण्यत: सुधिया॥२२॥


कस्य वशे प्राणिगण: सत्यप्रियभाषिणो विनीतस्य।

क्व स्थातव्यं न्याय्ये पथि दृष्टादृष्टलाभाय॥२३॥


विद्युविलसितचपलं किं दुर्जनं संगतं युवतयश्च।

कुलशैलनिष्प्रकम्पा: के कलिकालेपि सत्पुरुष:॥२४॥


किं शोच्यं कार्पण्यं सति विभवे किं प्रशस्यमौदार्यम्।

तनुतरवित्तस्य तथा प्रभविष्णोर्यत्सहिष्णुत्वम्॥२५॥


चिन्तामणिरिव दुर्लभ-मिह ननु कथयामि चतुर्भद्रम्।

किं तद्वदन्ति भूयो विधूत तमसो विशेषेण॥२६॥


दानं प्रियवाक्सहितं ज्ञानमगर्वं क्षमान्वितं शौर्यम्।

त्यागसहितं च वित्तं दुर्लभमेतच्चतुर्भद्रम् ॥२७॥


इति कण्ठगता विमला प्रश्नोत्तर-रत्नमालिका येषाम्।

ते मुक्ताभरणा अपि विभान्ति विद्वत्समाजेषु॥२८॥


विवेकात्यक्तराज्येन राज्ञेयं रत्नमालिका।

रचितोमोघवर्षेण सुधियां सदलंकृति:॥२९॥