भावना द्वात्रिशान्तिका

उपजाति छन्द:

सत्त्वेषु मैत्रीं गुणिषु प्रमोदं,

क्लिष्टेषु जीवेषु कृपा-परत्वम्।

माध्यस्थभावं विपरीतवृत्तौ,

सदा ममात्मा विदधातु देव॥ १॥


शरीरत: कत्र्तुमनन्त-शक्तिं,

विभिन्नमात्मानमपास्त-दोषम्।

जिनेन्द्र! कोषादिव खड्ग-यष्टिं,

तव प्रसादेन ममास्तु शक्ति:॥ २॥


दु:खे सुखे वैरिणि बन्धुवर्गे,

योगे वियोगे भवने वने वा।

निराकृताशेष-ममत्वबुद्धे:

समं मनो मेस्तु सदापि नाथ!॥ ३॥


मुनीश! लीनाविव कीलिताविव,

स्थिरौ निखाताविव बिम्बिताविव।

पादौ त्वदीयौ मम तिष्ठतां सदा,

तमोधुनानौ हृदि दीपकाविव॥ ४॥


एकेन्द्रियाद्या यदि देव! देहिन:,

प्रमादत: सञ्चरता इतस्तत:।

क्षता विभिन्ना मिलिता निपीडितास्,

तदस्तु मिथ्या दुरनुष्ठितं तदा॥ ५॥


विमुक्तिमार्ग-प्रतिकूलवर्तिना,

मया कषायाक्षवशेन दुर्धिया।

चारित्रशुद्धेर्यदकारि लोपनं,

तदस्तु मिथ्या मम दुष्कृतं प्रभो!॥ ६॥


विनिन्दनालोचन-गर्हणैरहं,

मनोवच:कायकषाय-निर्मितम्।

निहन्मि पापं भवदु:खकारणं,

भिषग्विषं मन्त्रगुणैरिवाखिलम्॥ ७॥


अतिक्रमं यद्विमतेव्र्यतिक्रमं,

जिनातिचारं सुचरित्रकर्मण:।

व्यधामनाचारमपि प्रमादत:,

प्रतिक्रमं तस्य करोमि शुद्धये॥८॥


क्षतिं मन: शुद्धि-विधेरतिक्रमं,

व्यतिक्रमं शील-व्रतेर्विलङ्घनम्।

प्रभोतिचारं विषयेषु वर्तनं

वदन्त्यनाचारमिहातिसक्तताम्॥ ९॥


यदर्थमात्रा-पदवाक्यहीनं,

मया प्रमादाद्यदि किञ्चनोक्तम्।

तन्मे क्षमित्वा विदधातु देवी,

सरस्वती केवलबोधलब्धिम्॥ १०॥


बोधि: समाधि: परिणामशुद्धि:,

स्वात्मोपलब्धि: शिवसौख्यसिद्धि:।

चिन्तामणिं चिन्तितवस्तुदाने,

त्वां वन्दमानस्य ममास्तु देवि!॥ ११॥


य: स्मर्यते सर्वमुनीन्द्रवृन्दै,

र्य: स्तूयते सर्वनरामरेन्द्रै:।

यो गीयते वेदपुराणशास्त्रै:,

स देवदेवो हृदये ममास्ताम्॥ १२॥


यो दर्शनज्ञानसुखस्वभाव:,

समस्त-संसार-विकारबाह्य:।

समाधिगम्य: परमात्मसञ्ज्ञ:,

स देवदेवो हृदये ममास्ताम्॥ १३॥


निषूदते यो भवदु:खजालं,

निरीक्षते यो जगदन्तरालम्।

योन्तर्गतो योगिनिरीक्षणीय:,

स देवदेवो हृदये ममास्ताम्॥ १४॥


विमुक्तिमार्गप्रतिपादको यो,

यो जन्ममृत्युव्यसनाद्यतीत:।

त्रिलोकलोकी विकलोकलङ्क:

स देवदेवो हृदये ममास्ताम्॥ १५॥


क्रोडीकृताशेष-शरीरिवर्गा,

रागादयो यस्य न सन्ति दोषा:।

निरिन्द्रियो ज्ञानमयोनपाय:,

स देवदेवो हृदये ममास्ताम्॥ १६॥


यो व्यापको विश्वजनीनवृत्ते:,

सिद्धो विबुद्धो धुतकर्मबन्ध:।

ध्यातो धुनीते सकलं विकारं,

स देवदेवो हृदये ममास्ताम्॥ १७॥


न स्पृश्यते कर्मकलङ्कदोषै:

यो ध्वान्तसङ्घैरिव तिग्मरश्मि:।

निरञ्जनं नित्यमनेकमेकं,

तं देवमाप्तं शरणं प्रपद्ये॥ १८॥


विभासते यत्र मरीचिमाली,

न विद्यमाने भुवनावभासी।

स्वात्मस्थितं बोधमयप्रकाशं,

तं देवमाप्तं शरणं प्रपद्ये॥ १९॥


विलोक्यमाने सति यत्र विश्वं,

विलोक्यते स्पष्टमिदं विविक्तम्।

शुद्धं शिवं शान्तमनाद्यनन्तं,

तं देवमाप्तं शरणं प्रपद्ये॥ 20॥


येन क्षता मन्मथमानमूच्र्छा,

विषादनिद्राभय-शोक-चिन्ता:।

क्षतोनलेनेव तरुप्रपञ्चस्,

तं देवमाप्तं शरणं प्रपद्ये॥ २१॥


न संस्तरोश्मा न तृणं न मेदिनी,

विधानतो नो फलको विनिर्मित:।

यतो निरस्ताक्षकषाय-विद्विष:,

सुधीभिरात्मैव सुनिर्मलो मत:॥ २२॥


न संस्तरो भद्र! समाधिसाधनं,

न लोकपूजा न च सङ्घमेलनम्।

यतस्ततोध्यात्मरतो भवानिशं,

विमुच्य सर्वामपि बाह्यवासनाम्॥ २३॥


न सन्ति बाह्या मम केचनार्था

भवामि तेषां न कदाचनाहम्।

इत्थं विनिश्चित्य विमुच्य बाह्यं,

स्वस्थ: सदा त्वं भव भद्र! मुक्त्यै॥ २४॥


आत्मानमात्मन्यवलोक्यमानस्

त्वं दर्शनज्ञानमयो विशुद्ध:।

एकाग्रचित्त: खलु यत्र तत्र,

स्थितोपि साधुर्लभते समाधिम्॥ २५॥


एक: सदा शाश्वतिको ममात्मा,

विनिर्मल: साधिगमस्वभाव:।

बहिर्भवा: सन्त्यपरे समस्ता,

न शाश्वता: कर्मभवा: स्वकीया:॥ २६॥


यस्यास्ति नैक्यं वपुषापि साद्र्धं,

तस्यास्ति किं पुत्र-कलत्र-मित्रै:।

पृथक्कृते चर्मणि रोमकूपा:,

कुतो हि तिष्ठन्ति शरीरमध्ये॥ २७॥


संयोगतो दु:खमनेकभेदं,

यतोश्नुते जन्मवने शरीरी।

ततस्त्रिधासौ परिवर्जनीयो,

यियासुना निर्वृतिमात्मनीनाम्॥ २८॥


सर्वं निराकृत्य विकल्प-जालं,

संसार-कान्तार- निपातहेतुम्।

विविक्तमात्मानमवेक्ष्य-माणो,

निलीयसे त्वं परमात्मतत्त्वे॥ २९॥


स्वयं कृतं कर्म यदात्मना पुरा,

फलं तदीयं लभते शुभाशुभम्।

परेण दत्तं यदि लभ्यते स्फुटं,

स्वयं कृतं कर्म निरर्थकं तदा॥ ३०॥


निजार्जितं कर्म विहाय देहिनो,

न कोपि कस्यापि ददाति किञ्चन।

विचारयन्नेव-मनन्यमानस:,

परो ददातीति विमुञ्च शेमुषीम्॥ ३१॥


यै: परमात्मामितगतिवन्द्य:,

सर्वविविक्तो भृशमनवद्य:।

शश्वदधीतो मनसि लभन्ते,

मुक्तिनिकेतं विभववरं ते॥ ३२॥


इति द्वात्रिंशतावृत्तै:, परमात्मानमीक्षते।

योनन्यगत-चेतस्को, यात्यसौ पदमव्ययम्॥